________________
चिकित्साकलिका साम्प्रतं त्रिकटुकमाहविश्वोपकुल्यामरिचैरमीभि
व्यस्त्रिभिस्त्र्यूषणमुक्तमेतत् । भिषम्भिराद्यैर्मतिबोधनाय
ससन्निपातस्य जडस्य जन्तोः ॥ ५५॥ एतत् त्र्यूषणमुक्तम् । भिषम्भिराद्यैश्चिरन्तनैः सुश्रुतादिभिः । किमर्थम् ? मतिबोधनाय। जन्तोः प्राणिनः । जडस्य मूकात्मनः । ससन्निपातस्य सह सन्निपातेन वर्त्तते इति ससन्निपातस्तस्य । त्रिभिद्रव्यैरमीभिर्विश्वादिभिः । विश्वं शुण्ठी। उपकुल्या पिप्पली। मरिचमूषणमिति । त्र्यूषणं त्रिकटुकं नाम गणोऽष्टमः ॥ ५५ ॥
त्रिकटु-सोंठ, पिप्पली, कालीमिर्च । यह तीनों मिल त्रिकटु कहलाता है। सन्निपात में अथवा अन्य कारणों से निःसंज्ञ पुरुष को चेतना में लाने के लिये सुश्रुत आदि प्राचीन चिकित्सकों ने नस्य द्वारा उपयुक्त कहा है ॥ ५५॥ - इदानीं पञ्चकोलमाह- .
सपिप्पलीग्रन्थिकचव्यचित्रकैः सनागरैः पञ्चभिरेभिरौषधैः। इतीरितं तत्खलु पञ्चकोलकं
प्रनष्टवढेरतिदीप्तिकारकम् ॥ ५६ ॥ अतिशयेन दीप्तिकरं पञ्चभिरौषधैः पिप्पल्यादिभिः । प्रन्थिक पिप्पलीमूलम् । चव्यचित्रको प्रसिद्धौ । ग्रन्थिकं च चव्यं च चित्रकश्च प्रन्थिकचव्यचित्रकाः।सह पिप्पल्या ग्रन्थिकचव्यचित्रकाःतैः सपिप्पलीप्रन्थिकचव्यचित्रकैः। पिप्पली उपकुल्या। सह नागरेण वर्तत इति सनागरः। नागरं शुण्ठी। तैः सनागरैरेभिः पञ्चकोलकं नाम नवमो गणः ॥ ५६ ॥
पञ्चकोल–पिप्पली, पिप्पलीमूल, चन्य, चित्रक, सोंठ । ये पांच औषध मिलकर पञ्चकोल कहलाता है । यह गण मन्द हुई २ अग्नि को अत्यन्त प्रदीप्त करता