________________
चिकित्साकलिका। भूनिम्बराजतरुपद्मकपर्पटाख्यै
रेभिर्गणोऽयमिति पित्तकफामयनः ॥ ५३॥ अयं गणः पित्तकफामयनः । पित्तं च कफश्च पित्तकफौ, ताभ्यां आमया रोगाः पित्तकफामयाः तान् हन्तीति पित्तकफामयनः । इत्येभिर्द्रव्यैः । त्रायन्तिका त्रायमाणा । कुटजबीजं इन्द्रयवाः। वृषं आटरूषकम् । अमृता गुडूची। तिक्ता कटुका । पटोलं पटोलपत्रम् । पिचुमन्दो निम्बः । दुरालभा धन्वयासकः । भूनिम्बः किराततिक्तः । राजतरुर्गिरिमालकः । पद्मकपर्पटको प्रसिद्धौ। त्रायन्तिकादिः पित्तश्लेष्मनो गणः षष्ठः ॥ ५३॥
बायन्तिकादिगण-त्रायमाणा, इन्द्रजौ, अडूसा, गिलोय, कुटकी, पटोलपत्र, नीम, दुरालभा (धमासा), चिरायता, अमलतास, पद्माख, पित्तपापड़ा । यह गण कफपित्तरोगनाशक है ॥ ५३॥ इदानीं त्रिफलामाह
बिभीतकामलकहरीतकीभिः फलत्रयं कथितमिदं भिषग्भिः । सकुष्ठिनां मुखनयनामयानां
प्रमेहिणां व्रणगलगण्डिनाश्च ॥ ५४ ॥ इदमेतत् भिषम्भिवैद्यैः फलत्रयं कथितम् । प्रत्यनीकमेषां मुखनयनामयानां । मुखश्च नयने व मुखनयनं प्राणितूर्यसेनाङ्गानामित्येकवद्भावः । तत्र आमयास्तेषाम् । सकुष्ठिनां सह कुष्ठेन वर्त्तन्त इति सकुष्ठिनस्तेषाम् । प्रमेहिणां च प्रमेहयुक्तानाम् । घणगलगण्डिनां च । वणितानां गलगण्डिनां च । एतत् कथितमिति । बिभीतकं अक्षफलम् । आमलकं धात्रीफलम्। हरीतक्यभयाफलम् । फलानां त्रयम् । इयं त्रिफला । सप्तमोऽयं गणः ॥५४॥
त्रिफला बहेड़ा, आंवला, हरड़। ये तीनों मिल त्रिफला कहलाती है। यह कुष्ठ, मुखरोग, नयनरोग (आंखों के रोग), प्रमेह, व्रण तथा गलगण्ड आदि रोगों में प्रशस्त है ॥ ५४॥