SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५६ चिकित्साकलिका। अयं गणः काकोल्यादिः उदीरितः कथितः । कैः ? ऋषिभिः । पित्तापहः पित्तनः। तर्पणः प्रीणनः । काकोलीद्वयं काकोलीक्षीरकाकोल्यौ। ऋद्धिः पुष्टिः । वृद्धिस्तद्भेदः । मधुकं यष्टीमधु । मेदाद्वयं मेदामहामेदे टे। पद्मकं हिमपद्मकम् । शृङ्गी कर्कटशृङ्गी । कीचकरोचना वंशरोचना । अमृतलता गुडूची। द्वे मुद्माषच्छदे मुद्गपर्णीमाषपण्यौँ। जीवन्ती द्विविधा-कन्दवती मूलिनी च । जीवकः कूर्चशीर्षकः । ऋषभको वृषभकः गोपतिः । पुण्डरीकं प्रसिद्धम् । इति काकोल्यादिरयं द्वितीयः गणः ॥ ४९॥ काकोल्यादिगण-काकोली, क्षीरकाकोली, ऋद्धि, वृद्धि, मुलहठी, मेदा, महामेदा, पद्मक (पद्माख), काकड़ासिंगी, वंशलोचन, गिलोय, मुद्गपर्णी, माषपर्णी, जीवन्ती, जीवक, ऋषभक, पुण्डरीक (कमल)। यह गण पित्तनाशक तथा तर्पण है ॥ ४९॥ .. पित्तघ्रगणानन्तरं श्लेष्मनगणमाहकृष्णाग्रन्थिकचव्यचित्रकविषाविश्वौषधाजाजिभिः पाठारामठरेणुकामधुरसासिद्धार्थतिक्तोषणैः । द्रेक्काशक्रयवाजमोदत्रुटिभिर्भार्गीविडङ्गान्वितैरेभिर्दीप्तिकरः कफामयहरः कृष्णादिरुक्तो गणः ॥५०॥ कृष्णादिः पिप्पल्यादिः उक्तः कथितः कफामयहरः कफरोगहरः। दीप्तिकरोऽग्निदीप्तिकरः। एभिः कृष्णादिभिः । कृष्णा पिप्पली । प्रन्थिकं पिप्पलीमूलम् । चव्यं चविकम् । चित्रका प्रसिद्धः। विषा अतिविषा। विश्वौषधं शुण्ठी। अजाजी जीरकम् । पाठा अम्बष्ठा । रामठं हिंगु । रेणुका हरेणुका। मधुरसा मूर्वा। सिद्धार्थः सर्षपः। तिक्ता कटुका । ऊषणं मरिचं । नेका महानिम्बः वकाइणीति लोके । शक्रयवाः इन्द्रयवाः। अजमोदा दीप्यकः । त्रुटिः एला । भार्गी ब्राह्मणयष्टिका। विडङ्गं कृमिशत्रुः । इति कृष्णादिस्तृतीयो गणः ॥५०॥ पिप्पल्यादिगण-पिप्पली, पिप्पलीमूल, चन्य, चित्रक (चीता), अतीस, सोंठ, जीरा, पाठा (पाढ), हींग, रेणुका, मूर्वा, श्वेत सरसों, कटुकी, कालीमिर्च, बकायन, इन्द्रजौ, अजवाइन, छोटी इलायची, भारंगी, वायविडंग । यह गण अग्निप्रदीपक तथा कफरोगनाशक है ॥५०॥
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy