________________
चिकित्साकलिका। इत्यनेन प्रकारेण पूर्वोक्तेन इदमेतत् सूत्रमुक्तम् । यदुदीरितं कथितं पुरा “प्रकोपहेतुः कुपितस्य लिङ्गं चिकित्सितं चेति निरूपणीयमिति” । समुच्चये इदं चेति समुच्चयस्तस्मिन् । कीदृग्गुणविशिष्टं सूत्रम् ? अविस्तरौषधं आविस्तरेण औषधानि यस्मिन् सूत्रे तदविस्तरौषधं संक्षेपौषधमिति । अतः अस्मादूर्व कियद्भिर्गणैः औषधसंग्रहैः औषधैः संग्रहो येषु तैः, अन्यचिकित्सितं निगद्यत इति॥४७॥
___ इस प्रकार हमने संक्षेप से दोषों के प्रकोप के कारण, उनके लक्षण तथा चिकित्सा कही है । अब कुछ औषध के गणों द्वारा दोषों की चिकित्सा का वर्णन किया जाता है ॥४७॥ पूर्व गणैर्निगद्यते अन्यश्चिकित्सितमित्युक्तमतस्तान् गणानाह
रास्नात्रिकण्टकगुहातिगुहाश्वगन्धागन्धर्वहस्तकपिकच्छुपुनर्नवाभिः । छिन्नाबलाद्विपबलातिबलावरीभि
रित्यौषधीभिरनिलामयभिद्गणोऽयम् ॥ ४८ ।। अयमनिलामयजिद् गणः । अनिलो वायुः तेन आमयाः रोगाः अनिलामयास्तान् जयतीत्यनिलामयजित् । इति आभिरौषधीभिः रानादिभिरिति । रास्ना सुरभी । त्रिकण्टको गोक्षुरकः । गुहा पृथक्पर्णी पीठवनीत्यर्थः । अतिगुहा शालिपर्णी । अश्वगन्धा वाजिगन्धा । 'गन्धर्वहस्त एरण्डः । कपिकच्छुः स्वयंगुप्ता । पुनर्नवा वर्षाभूः । छिन्ना गुडूची । बला समङ्गा । द्विपबला नागवला । अतिबला बलाभेदः । वरी शतावरी । रासादिरयं गणः प्रथमः॥४८॥
रानादिगण-राना, गोखरू पृभिपर्णी, शालिपर्णी, असगन्ध, एरण्ड, कौंच पुनर्नवा, गिलोय, बला (खिरैटी), नागबला, अतिबला, शतावरी । यह औषधिगण वातनाशक है ॥४८॥
वातघ्नगणानन्तरं पित्तनगणमाहकाकोलीद्वयमृद्धिवृद्धिमधुकं मेदाद्वयं पद्मकं शृङ्गी कीचकरोचनामृतलता द्वे मुद्गमाषच्छदे । जीवन्ती च सजीवका सवृषभा स्यात्पुण्डरीकान्विता काकोल्यादिरुदीरितोऽयमृषिभिः पित्तापहस्तर्पणः ॥ ४९ ।