________________
५४
चिकित्साकलिका। सर्पिषा घृतेन । पयसा दुग्धेन । सितया शर्करया। स्वादुना मधुरेणोपयुक्तेनेति ॥४५॥
द्राक्षा, त्रिफला (हरड, बहेडा, आंवला), निसोत; इन के सेवन से, विरेचन से, शोणितनिहरण से, घृत, दूध, खांड तथा अन्य मधुररस युक्त-द्रव्यों के उपयोग से प्रकुपित पित्त शान्त होता है ॥ ४५ ॥ पित्तोपशमानन्तरं कफोपशमनमाह
लङ्घनेन वमनेन यवानप्राशनेन शिरसश्च विरेकैः । कट्फलादिकवलरहिमाभि
श्वाद्भिरत्र शममेति कफश्च ॥४६॥ अत्रायुर्वेदे कफः शमं एति । केन ? लबनेन दशविधेनापि कृतेन । लङ्घनं दशविधं चरकाचार्येणोक्तम् । “चतुःप्रकारा संशुद्धिः पिपासा मारुतातपौ। पाचनान्युपवासश्च व्यायामश्चेति लवनम् ॥” इति । वमनेन च। ननु वमनस्य लङ्घनान्तःपातित्वात् किमर्थं पृथगुपादानं तस्य क्रियते । सत्यं वमनस्यातिशयेन कफहारित्वप्रतिपादनार्थम् । उक्तश्च"वमनं श्लेष्महराणां।” इति । यवानप्राशनेन च । यवान्नानि सक्तुयावकापूपलिकाकुल्माषास्तानि । तेषां प्राशनं भक्षणं तेन । शिरसश्च विरेकैः पिप्पलीसैन्धवादिना नस्यैः । कट्फलादिकवलैश्च कट्फलादिगणसंस्कृतकवलधारणैः अहिमाभिश्चाद्भिरुष्णोदकपानैः शममुपशम मुपैति गच्छति कफ इति ॥ ४६॥
लंघन, वमन, यवप्रधान भोजन, शिरोविरेचन (नस्य आदि द्वारा), कटफलादि गण की औषधों से सिद्ध जल के कवलधारण तथा उष्ण जल के पीने से कुपित कफ शान्त होता है ॥ ४६॥ साम्प्रतं समुच्चयसूत्रमुक्त्वा गणैरन्यचिकित्सितमाह
इतीदमुक्तं यदुदीरितं पुरा समुच्चये सूत्रमविस्तरौषधम् । कियद्भिरप्यौषधसंग्रहैगणेनिगद्यते चान्यदतश्चिकित्सितम् ॥ ४७ ॥