________________
चिकित्साकलिका |
दोषधातुमलास्ते मूलं कारणं यस्य शररिस्य । तच्छरीरं दोषधातुमलमूलम् । यतश्चैवमतस्तेषां दोषादीनां विकृतिं विकारमुपलभ्य ज्ञात्वा भिषग्भिवैद्यैर्भेषजैरौषधैरुपशमः करणीयः कर्त्तव्य इति ॥ ४३
५३
:
यह रोगाधिष्ठान मनुष्यों का शरीर अविकृत दोष, धातु तथा मल पर ही आश्रित है । अतएव दोष आदि के विकार को यथावत् जान कर ही औषधों द्वारा रोग की शान्ति करनी चाहिये ॥ ४३ ॥
तत्रैवं स्थिते वातस्यैव प्राधान्यादुपशमः प्रथमं क्रियत इत्याहतत्र तावदनिलः शममेति स्नेहवस्तिपरिषेकनिरूहैः । भुक्तमात्र बलदेन नराणामोदनेन मृदुमांसरसेन ॥ ४४ ॥
1
तत्र प्रथमं तावत् अनिलो वायु शममेत्युपशमं याति । कैः ? स्नेहवस्तिपरिषेकनिरूहैः । स्नेहवस्तिरनुवासनम्, परिषेकः परिषिश्चनं, निरूह आस्थापनं तैः । केषां ? नराणाम् । न केवलं स्नेहवस्त्यादिभिरुपशमं याति । ओदनेन च भकेन मृदुमांसरसेन च । मृदुभिर्द्रव्यैर्मरिचचव्यदाडिमजीर कदधिस्नेहगोरसधान्यादिभिः संस्कृतो मांसरसः तेन सह । कीडग्गुणविशिष्टेन ? भुक्तमात्रबलदेन । भुक्तमात्र एव स चौदनो मृदुमांसरसो वा बलं ददाति इति । तथा च सुश्रुताचार्य्य:“आहारः प्रीणनः सद्यो बलकृद्देहधारक इति” ॥ ४४ ॥
द्राक्षया त्रिफलया तृवृता च स्रंसनेन रुधिरस्रुतिभिश्च ।
स्निग्धवस्ति (अनुवासन), परिषेक, निरूहण तथा भोजनमात्र से ही बल देने वाले लघु मांसौदन के भक्षण से प्रकुपित वात शान्त होता है ॥ ४४ ॥ वातोपशमानन्तरं पित्तोपशमनमाह
सर्पिषा च पयसा सितया च
स्वादुना भवति पित्तनिवृत्तिः ॥ ४५ ॥
पित्तस्य निवर्त्तनं भवति द्राक्षया त्रिफलया त्रिवृता चोपयुक्तया ।
संसनेन विरेचनेन च कृतेन । रुधिरस्स्रुतिभिश्च रुधिरस्रावैः सुकृतैः ।