________________
चिकित्साकलिका प्रज्ञाप्लुतिर्वमथुपीनसकासनिद्रातन्द्रादयश्चुलुचुलायनमुल्वणश्च । स्पादोष्ठकण्ठरचनारदमूलतालु. घाणेक्षणश्रवणशष्कुलिकान्तरेषु ॥३९॥ श्लेष्मोद्भवे भवति लिङ्गमिदं विकारे संसर्गजेषु च गदेषु भवेद् द्विदोषम् । जन्तोरिदं पवनपित्तकफप्रकोप
लिङ्गं त्रिदोषजरुजि प्रविभज्य योज्यम् ॥४०॥ इदं पूर्वोक्तं लिंगं श्लेष्मोद्भवे विकारे भवति । अङ्गस्येत्येकवचनं जातौ तेन अंगानां गौरवं भवति । अपाटवं अन्तरग्नेः जाठराग्नेरपाटवं अतीक्ष्णत्वं भवति । उक्लेशता च हृदयस्य मनसो वमनामिमुखता भवति । मुखप्रसेको मुखे श्लेष्मक्षरणं भवति । आलस्यमनुत्साहः क्रियासु । आस्यमधुरत्वं मुखमधुरता । अकाण्डकण्डूरकस्मात् कण्डूयनम्। आपाण्डुता नयनयोरक्ष्णोः शुक्लत्वम् । अतिरोमहर्षः अतिशयेन रोमहर्षः अतिशयेन रोम्णां स्तब्धता । भवतीति प्रत्येकमभिसम्बन्धः । प्रज्ञाप्लुतिर्बुद्धिनाशः । वमथुपीनकासनिद्रातन्द्रादयो भवन्ति । वमथुर्वमनम् । पीनसः प्रतिश्यायः । कसनं कासः । निद्रा स्वप्नः। तन्द्रा निद्राभेदः । आदिग्रहणात् सुप्तत्वस्तम्भशीतादयो गृह्यन्ते । चुलुचुलायनमुल्वणं च स्यात् । ओष्ठादिषु ओष्ठकण्ठरसनारदमूलतालुघ्राणेक्षणश्रवणशुष्कुलिकान्तरेषु । ओष्ठौ दन्तच्छदौ । कण्ठः प्रसिद्धः । रसना जिह्वा । रदमूलं दन्तमूलम् । तालु तालुमर्म । घ्राणं नासापुटम् । ईक्षणे नयने । श्रवणशष्कुलिका कर्णपालिः। आसामन्तरालेषु चुलु. चुलायनं कण्डूविशेषः स्यात् भवेत् । श्लेष्मोद्भवे भवति लिङ्गमिदं विकारे । श्लेष्मण उद्भवं यस्य स श्लेष्मोद्भवस्तस्मिन् श्लेष्मोद्भवे विकारे। इदं पूर्वोकं लिङ्गं चिह्नं भवति । संसर्गजेषु च गदेषु भवेद् द्विदोषं संश्लेषो वातपित्तजः वातश्लेष्मजः श्लेष्मपित्तजः । तेषु संसर्गजेषुगदेषु विकारेषुद्वाभ्यां दोषाभ्यां पूर्वोक्तलिङ्गं पृष्ठा द्विद्वोषजविकारो भवेजन्तोः प्राणिनः । इदं पवनपित्त कफप्रकोपलिङ्गं त्रिदोषजरुजि प्रविभज्य