________________
चिकित्साकलिका। नाभिप्रदेशाच्च शिराः प्रवृत्ता गुदे प्रधानान्त्रममुत्र नद्धम् ॥ २६ ॥ अतः प्रधानानि भवन्त्यमूनि हृन्नाभिपायनि नृणाममीषाम् । एतन्मयं प्रोक्तमिदं शरीर
मिति प्रकाशीकृतमल्पमात्रम् ॥ २७ ॥ अमीषामेतेषां नृणां प्राणिनां, अमूनि हृन्नाभिपायूनि । पायुर्गुदम् । अतोऽस्मात् कारणादमूनि प्रधानानि । भवन्ति यतो गुणत्रयं सत्वरजस्तमांसि हृदि स्थितानि । अत्र च हृदि मनोविकाराः कामादयो भवन्त्यतो हृदयं प्रधानम् । सर्वाः शिराः नाभिप्रदेशात् प्रवृत्ताः अतो नाभिः प्रधाना। अमुत्रामुष्मिन् गुदे प्रधानान्त्रं स्थूलान्त्रं नद्धं बद्धं अतो गुदं प्रधानम् । अत एभ्यस्त्रिभ्यः कारणेभ्यस्त्रीण्येतानि अन्येभ्यः प्रधानानि भवन्ति । इदमेतत् शरीरं व्याधिचिकित्सायतनं एतन्मयं एतद्विकारम् । एतदित्यनन्तरोक्तस्य गुणत्रयस्य परामर्शः । प्रोक्तं प्रकर्षणोक्तं भाषितम् । यद्यपि पञ्चमहाभूतविकारमुक्तं शरीरं तथापि गुणानां प्रकर्षः गुणोत्पन्नत्वात् पंचमहाभूतानाम् । तथा च सुश्रुतः-" तत्र सत्वबहुलमाकाशमित्यादि" । पुनश्वोक्तं—“पुरुषः षोडशकलः प्राणाश्चैकादशैव ये । रोगाणां तु सहस्रं यच्छतं विंशतिरेव च । व्यासतः कीर्तितं तद्धि भिन्नदोषास्त्रयो गुणाः । गुणविजृम्भितं सर्वमेतदित्यनेन प्रकारेण प्रकाशीकृतं प्रकटीकृतं अल्पमात्रं स्तोकमानं शरीरं विस्तरभयात् । विस्तरस्तु सुश्रतचरकप्रभृतिभिरुक्तः-इति ॥
सत्व, रज तथा तम; ये तीनों गुण हृदय में स्थित हैं और मानसिक विकार भी यहीं पर पैदा होते हैं अतएव हृदय अन्य मर्मों से मुख्य है। यतः नाभिप्रदेश से ही सम्पूर्ण धमनियां चारों ओर फैलती हैं अतः नाभि भी प्रधान मर्मों में से एक है। गुदा के साथ यतः बृहदन्त्र का सम्बन्ध है अतः गुदा भी प्रधान मर्मों में परिगणित है। संक्षेपतः यह शरीर सत्व, रज तथा तम का विकार ही है ॥ २६-२७ ॥