________________
४४
चिकित्साकलिका। पूर्वमुक्तमत्र शरीरे रोगाः संभवन्तीति । तच्छरीरमभिधाय इदानीरोगकारणानां प्रकोपेण कुपितलिंगचिकित्सितान्युपदिशन्नाह
वातस्य पित्तस्य कफस्य वापि विकारिण : कायवतां हि काये । प्रकोपहेतुः कुपितस्य लिङ्गं
चिकित्सितं चेति निरूपणीयम् ॥२८॥ वातस्य विकारिणो विकृतस्य प्रकोपहेतुः , कुपितस्य लिंग चिकित्सितं च निरूपणीयम् । केषां? कायवतां शरीरिणाम् । काये शरीरे। तथा पित्तकफयोरपि निरूपणीयमिति ॥२८॥
शरीरधारियों के शरीर स्थित विकृत वात, पित्त तथा कफ के प्रकोपक कारण, प्रकुपित दोषों के लक्षण तथा उनकी चिकित्सा को जानना आवश्यक है ॥२८॥
अधुना वातस्यैव प्राधान्यात् पूर्व प्रकोपणान्याह- . रूस्तिक्तः कषायैः कटुभिरनशनैर्वेगसन्धारणैश्च व्यायामश्च व्यवायैः प्रतरणबलवद्विग्रहर्जागरैश्च । श्यामानीवारकंगुप्रभृतिभिरशनैरुल्लसद्भिः पयोदै- . रन्ने जीर्णेऽपि जन्तोरिति भवति तनौ मारुतस्य प्रकोपः ॥२९॥
जन्तोः प्राणिनस्तनौ शरीरे मारुतस्य वातस्य प्रकोपो भवति । एभिः कारणैः । रूक्षेश्वणककलायमसूरादिभिः । तितैर्निम्बवासकबाकुचिकापर्पटकादिभिः । कषायैः राजमाषजम्बूफलतिन्दुककुमुदोत्पलकन्दादिभिः । कटुभिः कालशाकतिलशाकवेतसप्रभृतिभिः । अनशनैरुपवासैः। वेगसंधारणैर्वातमूत्रपुरीषादीनां निग्रहः। व्यायामैः शरीरायासैः। व्यवायैः स्त्रीसंपर्कैः । प्रतरणान्युदकप्लवनानि । बलवद्भिर्विग्रहा युद्धानि। प्रतरणानि च बलवद्विग्रहाश्च प्रतरणबलवद्विग्रहाः। तैः प्रतरणबलवद्विग्रहैः । जागरैः रात्रिजागरैः । श्यामाकः श्यामाकधान्यं । नीवारः प्रसातिका नीवारु इति लोके। प्रभृतिग्रहणेन कोद्रवादीनां कुधान्यानां ग्रहणम् । एतत्प्रभृतिभिः अशनै जनैः। पयोदैमधैः उल्लसद्भिः उन्नमद्भिः अनेन प्रावृट्कालग्रहणम् । अन्ने भोजने जीर्णे परिणते । इत्येभिर्हेतुभिर्वातप्रकोपो भवतीति ॥२९॥