________________
चिकित्साकलिका। दोषसाम्यायत्तमेव धातुमलसाम्यमित्यत्रोच्यते-स्वयोनिवर्द्धनद्रव्ययोगाद् वृद्धिः। विपरीतद्रव्योपयोगात् क्षयः। इत्यतः पृथक् धातुमलग्रहणं कृतं यथा नायमेकान्तेन दोषायत्तमेव धातुमलानां साम्यमसाम्यं च । हेत्वन्तरजनितमपि भवति साम्यमसाम्यं च धातुमलानाम् । हेत्वन्तरश्वाहारविहारौ। तस्मात्साधूक्तम्-'दोषेषु धातुषु मलेषु समेष्विति' । एवं दोषधातुमलानां साम्यात् स्वस्थः संपद्यते । स च त्रिविधः-स्वाभाविकः क्रियाजः कृत्यश्च । तथा च तन्त्रान्तरम्-"स्वाभाविकः क्रियाजश्च कृत्यश्चेति नरास्त्रयः। स्वस्था भिषग्भिनिर्दिष्टास्तेषां वक्ष्यामि लक्षणम् ॥ शुक्रशोणितसंशुद्धया स्वभावाद्यः प्रजायते । स्वाभाविकः, क्रियाशुद्धया कियाजः परिकीर्तितः ॥ अशुद्धे तु समुत्पन्ना ये नराः शुक्रशोणिते । कृत्या नित्यातुरास्ते स्युरितरौ रोगवर्जितौ” इति ॥ १९ ॥
चूंकि दोष (वात, पित्त, कफ) धातु तथा मलों के सम होने पर ही साम्य ( आरोग्य ) और विषम होने पर असाम्य होता है अतः विषम हुए २ दोष आदि को समता में लाना यहाँ चिकित्सा का रहस्य है ॥ १९॥
__ पूर्वं त्वग्दोषधातुमलमर्मसिरादिभिर्व्याप्तं वपुरित्युक्तम् । अत्र शिराभिः कथं व्याप्तमित्युच्यते
नाभेरधः प्रसृतयो दश यान्त्यधस्तादूर्ध्व कृतानुसृतयो दश तद्वदेव । द्वे द्वे शिरे प्रवितते प्रसृते च तिर्यक् युक्ता चतुर्भिरिति विंशतिरत्र काये ॥२०॥
विशतिश्चतुर्भिर्युक्ता शिराणामत्र काये। अत्र शरीरे चतुर्विंशतिर्मूलसिराः। ताभिश्च कथं शरीरं व्याप्तम् ? । नाभिस्तासांमूलम्। तस्या नाभरेधः प्रसृतयः अधस्तात् प्रसृतिः प्रसरणं यासां ता अधःप्रसृतयो दश शिरा अधस्तानिर्गच्छन्ति । तद्वत् नाभेरूज़ कृता अनुसृतिः अनुसरणं याभिः ताः कृतानुसृतयो दश शिरा ऊर्ध्वं यान्ति । द्वे द्वे शिरे तिर्यक् प्रसृते नाभेः । प्रवितते प्रकर्षेण प्रसृते । इत्यनेन प्रकारेण चतुर्भिर्युक्ता विंशतिरत्र काये अत्र शरीरे व्याप्य स्थिताः । ननु च सुश्रतेन चतुर्विंशतिधमन्यो नाभिप्रभवाः प्रोकाः। तत्कथं चतुर्विंशति