________________
३८
चिकित्साकलिका। लसाम्यमपि भविष्यतीति, तस्मान्न किश्चित्प्रयोजनं समधातुमलग्रहणेनेति। अत्र प्रतिविधीयते-तत्र यथोदितं कालकृतं षट्स्वपि ऋतुषु दोषसाम्यं न विद्यते संचयप्रकोपोपशमनोक्तन। तत्र वर्षाहमन्तग्रीष्मेषु संचितानां दोषाणां शरद्वसन्तप्रावृड्सु च कुपितानां निर्हरणं कर्त्तव्यम् । तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते, श्लैष्मिकाणां निदाघे, वातिकानां घनात्यये, स्वभावत एवेत्यत्र समाधीयते-स्वस्थवृत्तोक्तविधिनानुष्ठानात् संचयप्रकोपाभावाद् दोषाणां साम्यं भविष्यति । अहोरात्रकृतमपि दोषाणां समत्वं नोपपद्यते इति यदुक्तं तत्रोच्यते-अनागताबाधविधानानुष्ठानेन न पूर्वाह्नादिकृतं श्लेष्मादिप्रकोपो भवत्येव च दोषसाम्यम् । तथा च वयोऽवस्थासु तिसृष्वपि दोषलाम्यं नोपपद्यते इति यथोदितमत्रापि प्रतिसमाधीयते--प्रतिपक्षद्रव्योपसेवनात् विद्यत एव दोषसाम्यम् । तथा हि-बालावस्थायां श्लेष्मवृद्धिः स्यात् , तस्यां कटुतिक्तकषायोष्णरूक्षाणि द्रव्याणि प्रतिपक्षाणि तत्सेवनात् श्लेष्मक्षयो वमनेन चापहरणम् । तथा चोक्तं-"बाला हि वामनीयाः" इति । मध्यमावस्थायां पित्तवृद्धिः तस्यां मधुरतिक्तकषायद्रवशीतानि द्रव्याणि प्रतिपक्षाणि तत्सेवनात् पित्तक्षयो विरेचनेन निर्हरणम् । “मध्यो हि विरेचनीयः' इत्युक्तम् । वृद्धावस्थायां वायोवृद्धिः, तस्यां मधुराम्ललवणस्निग्धोष्णानि द्रव्याणि प्रतिपक्षाणि । तत्सेवनाद् वातक्षयो वस्तिदानं च वृद्धावस्थायां विधीयते । तथा आहारस्यापि भुक्तविदग्धपरिणामावस्थासु दोषवृद्धिरिति यच्चोदिनं तत्परिहारार्थमाह-दोषादयस्तद्विरुद्धभोजनोपसेवनादविरुद्धा भवन्ति तद्यथा मधुरादिभोजनमेव प्रतिपक्षभूतं जीर्णेऽन्ने वायुवृद्धेः । भुक्तमात्रे कफवृद्धौ कटुतिक्तकषायस्य ताम्बूलादेश्च सेवनात् श्लेष्मक्षयो भवति । विदग्धाहारस्य पित्तवृद्धौ शीतोदकपानं युक्तम् । उक्तश्च तन्त्रान्तरे-"तृषितस्तु विदग्धेऽन्ने यः पिवेद वारि शीतलम् । विदाहः प्रशमं याति शेषमन्नं च जीर्यति" ॥ श्लेष्मणोऽपि भुक्तेरितस्य निर्हरणमुक्तम् । “भुक्तमात्रे भवेच्छ्लेष्मा तस्माद् भुक्तेरितं कफम् । हरेद्धमेन हृद्यैर्वा कषायकटुतिक्तकैरिति ।" एवं विरोधिद्रव्यगुणक्रियासेवनात् विद्यते दोषसाम्यम्। तस्मात्साधूक्तं दोषेषु समेष्विति । यत्पुनरुक्तं धातुमलसाम्यं तद्ग्रहणमपि न कर्त्तव्यं