________________
चिकित्साकलिका। च। क्लेदविवेकजं बस्तिपूरणकृन्मूत्रम्। स्वेदः क्लेदयतीत्यादि । ननु कस्माहोषधातुमलानामेव समत्वलक्षणं साम्यं नाग्निक्रियादिलक्षणमपीत्युच्यते-नात्रावधारणमुक्तमाचार्याणां भिन्नमतत्वात् । तथा च कैश्चित् वातपित्तश्लेष्मणां समत्वमेवारोग्यमुक्तम्। समवाताधारोग्यं, रुचिपक्तिकान्तिबलानि लक्षणं तस्य, साधनमस्य हितमिदं, फलमस्य चतु. टयावाप्तिः। सुश्रुताचार्येणाप्यष्टलक्षणमुक्तं स्वास्थ्यम् । “समदोषः समाग्निश्च समधातुमलक्रियः । प्रसन्नात्मेन्द्रियमना स्वस्थ इत्यभिधीयते।" कायचिकित्साकारैश्च पञ्चदशलक्षणं स्वास्थ्यमुक्तम् । अन्नं प्रार्थयते, लब्धमन्नमस्य स्वदते, भुक्तमस्य सम्यक् परिणमति, वर्णवान् बलवान् भवति, प्रसृष्टवातमूत्रपुरीषरेता, पञ्चेन्द्रियार्थोपपन्नः, सम्यक् स्वप्नमधिगच्छतीत्यरोगज्ञानं स्वस्थज्ञानमित्यर्थः ।. दोषधातुमलमूलं शरीरमुक्तं सुश्रुताचार्येण इति कृत्वा तेषामेव दोषधातुमलानां समत्वे स्वास्थ्यमुक्तं तीसटाचार्येणेति । ननु च दोषधातुमलानां समत्वं नोपपद्यते केनापि प्रकारेण । न तावत् कालकृतं समत्वमुपपद्यते दोषा. णाम् । तत्र वर्षाशरद्धेमन्तशिशिरवसन्तग्रीष्मेषु चयप्रकोपपोशमाः पित्तश्लेष्मवातानां यथाक्रमेणोक्ताः । तथा च चरकाचार्यः-"चय. प्रकोपोपशमाः पित्तादीनां यथाक्रमम् । भवन्त्येकैव शः षट्सु कालेष्व भ्रागमादिषु ॥ अहोरात्रकृतमपि दोषाणां . समत्वं नोपपद्यते । तत्र पूर्वाह्ने वसन्तस्य लिङ्गम् , मध्याह्ने ग्रीष्मस्य, अपराह्ने प्रावृषः । प्रदोषे वार्षिकम् , शारदं मध्यरात्रे, प्रत्यूषे हैमन्तिकमुपलक्षयेत् । एवमहोरात्रमपि वर्षमिव शीतोष्णवर्षदोषोपचयप्रकोपोपशमैर्जानीयदिति। तथा वयोऽवस्थास्वपि समत्वं दोषाणां नोपपद्यते । तथा चोक्तं सुश्रुते"बाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव च । भूयिष्ठं वर्द्धते वायुर्वृद्धे तद् वीक्ष्य योजयेत्”। इति। तथाहारस्यापि भुक्तविदग्धपरिणामावस्थासु तिसृष्वपि समत्वं नोपपद्यते दोषाणाम् । यदुक्तम्-"जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेव तु । भुक्तमात्रे कफश्चापि तस्माद्भुक्तेरितं कफमिति"। एवं तावदोषाणां साम्यं केनापि प्रकारेण नोपपद्यते इति। धातुमलसाम्यमपि न कर्त्तव्यं यतो दोषसाम्यायत्तमेव धातुमलसाम्यं, दोषा दुष्टा दूषितारो धातुमलानामिति । अतो दोषसमत्वेनैव धातुम