________________
चिकित्साकलिका। मुख्याः मलाः । तत्प्रधाना मुनिभिः पूर्वाचार्यैः प्रदिष्टाः कथिताः । मुख्यग्रहणात् अन्येऽप्यप्रधानाः कफादयो धातुमलाः सन्ति । तथा च सुश्रतः-“कफः पित्तं मलः खेषु प्रस्वेदो नखरोम च। नेहोक्षित्वग्विशामोजो धातूनां क्रमशो मलाः” इति ॥ १८॥
सुश्रुत आदि मुनियों ने रस, रक्त, मांस, मेद, अस्थि, (हड्डी), मजा तथा शुक्र ( वीर्य ); इन्हें सात धातु और पुरषि, मूत्र, स्वेद आदिको मल कहा है ॥ १८॥ ..
पूर्व स्वस्थरक्षणं प्रयोजनमुक्तमायुर्वेदस्य तस्य च स्वस्थस्य किं लक्षणमित्यत आह--
दोषेषु धातुषु मलेषु समेषु सत्सु साम्यं भवेदिह नृणामसमेष्वसाम्यम् । यस्मादतः समतया प्रयतेत तेषामेतचिकित्सितरहस्यमुदाहरन्ति ॥ १९ ॥
दोषेषु वातपित्तकफेषु रसरक्तमांसमेदोऽस्थिमज्जाशुक्रेषु मलेषु च विण्मूत्रादिषु । एषु समेष्वनतिरिक्तेषु सत्सु साम्यं भवेदिह नृणां प्राणिनाम् । असमेषु च दोषेषु यस्मादसाम्यं भवेदतोऽस्मात् कारणात् समतया प्रयतेत यत्न कुर्वीत । तेषां दोषादीनामिति । एतचिकित्सित. रहस्यमायुर्वेदरहस्यमकथनीयमनाप्तायोदाहरन्त्याचार्याः । इत्येष संक्षेपार्थः। अत्र विचार्यते-कीदृशाः सन्तो दोषादयःसमा इत्युच्यन्ते ? स्वासंभिन्नगुणयुक्ताः स्वाभ्युदयकरकर्मानुष्ठानपराः समा वातादय उच्यन्ते। सैव हि तेषां समता अरोगितेत्युच्यते । स्वाभ्युदयकर्मकरत्वं च दोषादीनां सुश्रुतादिभिरुक्तम् । तथा च सुश्रुतः-तत्र प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं वर्धयति । रागपक्योजस्तोमेधोष्मकृत्पित्तं पञ्चधा प्रविभक्तमग्निकर्मणानुग्रहं करोति । सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणानुग्रहं करोति ॥ रसः प्रीणयति, रक्तं जीवयति, मांसं लेपयति, मेदः स्नेहयति, अस्थीनि धारयन्ति, मजा पूरयति, वीर्यप्रीतिबीजार्थप्रहर्षकृच्छुकम् । पुरीषमुपस्तम्भं वाय्वग्निधारणं