SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३५ चिकित्साकलिका। पूरणबृंहणतर्पणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणानुग्रहं करोति । चरकेणाप्युक्तं-स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम् । क्षमा धृतिरलोभश्च कफकर्माविकारजम् ॥ इत्येतैः पूर्वोक्तैः वातपित्तकफैः प्रसादभूतैः प्रकृतिस्थितैः साम्यमाश्रितैः अविरतं निरन्तरं देहं शरीरं हि सन्धार्यत उपष्टभ्यते। तथा च चरक :- “सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेद्रियं बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति" इत्यादि। अत्र शरीरधातवो पुनर्द्विधा सङ्ग्रहेण-मलभूताः प्रसादभूताश्च । तत्र मलभूतास्ते ये शरीरस्य बाधकराः स्युः । तद्यथा-शरीरच्छिद्रेषूपदेहाः पृथग्जन्मानो बहिर्मुखाः परिपक्वाश्च धातवः प्रकुपिताश्च वातपित्तश्लेष्माणो ये चान्येऽपि केचित् शरीरे तिष्ठन्तो भावाः शरीरस्योपघातायोपपद्यन्ते सर्वांस्तान्मलान् सश्चक्ष्महे । इतरांस्तु प्रसादान्" ॥ प्रसादभूताश्च वातपित्तश्लेष्माणः देहधारणात् धातवः मलभूताश्च दूषणात् दोषा इत्युच्यन्ते । अन्ये तु दोषा इति मलभूतानां मुख्या संज्ञा यतस्ते दुष्टाः स्वभावादेव दूषयितारो भवन्ति, गौणी च प्रसादभूतानाम् ॥ १७ ॥ शरीरधारियों के शरीर में जो चेष्टा ( कायिक व्यापार ) का कर्ता तथा चेतना (ज्ञानोपलब्धि ) का साधन है वह वात है। जो सर्वत्र उष्णता को पैदा करता है उसका नाम पित्त है और जो शरीर को इस निरन्तर उत्पन्न होती हुई उष्णता से बचाकर स्नेहन तथा तपर्ण करता है उसका नाम कफ है। इन दोषों अर्थात् वात पित्त तथा कफ की समता द्वारा ही यह शरीर स्थित रहता है । यहां पर प्रसादसंज्ञक वात, पित्त, तथा कफ का ही ग्रहण करना चाहिये ॥ १७ ॥ __प्राक् धातुभिर्मलैश्च व्याप्तं वपुरित्युक्तं तत्र के धातवः के च मला इत्यत आह रसश्च रक्तं पिशितं च मेदस्त्वस्थीनि मजा त्वथ शुक्रमेते । स्युर्धातवः सप्त तथा मलाश्च विण्मूत्रमुख्या मुनिभिः प्रदिष्टाः ॥ १८ ॥ रसादयो धातवः सप्त स्युर्भवेयुः तथा मला विण्मूत्रमुख्याः । विट् पुरीषम् । विट् च मूत्रं च विण्मूत्रं ते मुख्य प्रधाने येषां ते विण्मूत्र
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy