________________
चिकित्साकलिका। पूर्व त्वग्दोषधातुमलमर्मशिरादिव्याप्तं वपुरित्युक्तमतो वातादीनां स्वरूपमाह
चेष्टाचेतनयोस्तनौ तनुभृतां धाता तु वायुः स्मृतः यत्तापं परितो दधात्यविरतं देहे हि पित्तं तु तत् । यश्चाश्लिष्य वपुः सदा रसयति प्रीणाति सोऽयं कफश्वेत्येतैः प्रकृतिस्थितैरविरतं देहं हि सन्धार्यते ॥ १७ ॥
तनुभृतां कर्मपुरुषाणां तनौ वपुषि चेष्टाचेतनयोः चेष्टा च चेतना च ते चेष्टाचेतने तयोः चेष्टाचेतनयोः कायिकव्यापारस्य ज्ञानस्य च धाता कर्ता तु वायुः वातः स्मृतः मतः। तथा च चरकः -"सर्वा हि चेष्टा वातेन स प्राणः प्राणिनां स्मृतः ॥ "उत्साहोच्छ्वासनिश्वासचेष्टाधातुगतिः समा। समो मोक्षो गतिमतां वायोः कर्माविकारजम्” ॥ "वायुस्तन्त्रयन्त्रधरः, प्राणादानसमानव्यानापानात्मा, प्रवर्तकश्चेष्टानामुच्चावचानां, नियन्ता प्रणेता च मनसः, सर्वेन्द्रियाणामुद्योजका, सर्वेन्द्रियार्थानामभिवोढा, सर्वशरीरधातुव्यूहकरः, सन्धानकरः शरीरस्य, प्रवर्तको वाचः, प्रकृतिः स्पर्शशब्दयोः, श्रोत्रस्पर्शनयोर्मूलं, हर्षोत्साहयोर्योनिः,समीरणोऽग्नेर्दोषसंशोषणः, क्षेप्ता बहिर्मलानां, स्थूलाणुस्रोतसां भेत्ता, कर्त्ता गर्भाकृतीनां, आयुषोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः । सुश्रुतेऽप्युक्तं-प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारयति । यत् देहे कायेऽविरतं निरन्तरं (आजननतो मरणपर्यन्तमिति यावत् ) तापमूष्माणं परितः सर्वतः दधाति तत् तु पित्तं पित्तमिति संशितम् । हि शब्दो निश्चयार्थावबो. धकः । तथा चोक्तं सुश्रुताचार्येण रागपक्तयोजस्तेजोमेघोष्मकृत्पित्तं पञ्चधा प्रविभक्तमग्निकर्मणानुग्रहं करोति । चरकेऽप्युक्तं-"पित्तादेवोष्मणः पतिर्नराणामुपजायते ॥ दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम् । प्रभा प्रसादो मेधा च पित्तकर्माविकारजम्" ॥ यश्च वपुः शरीरं आश्लिष्य रसयति स्नेहयति, प्रीणाति च सोऽयं कफः । इत्येनेनैतदुक्तं भवति यदि शरीरे श्लेष्मा न स्यात्तर्हि पित्तकृतेनोष्मणा शरीरं शोषमापद्यमानं नश्येत् ॥ तथा च सुश्रतः-सन्धिश्लेषणस्नेहनरोपण