________________
३३
चिकित्साकलिका। स्वरोऽल्पदेहबलः । शीघ्रायासविकारो द्रुतगतिवाक्चेष्टिताहारः ॥ शीघ्रग्रन्थो मतिमान् शीतालुर्जागरिष्णुरुष्णसहः। स्फुटितत्वक्पादकरश्चलचित्तश्चानिलप्रकृतिः । उष्णसहः सुकुमारः शिथिलामात्रप्रभूतविद् युक्तः । मृद्रल्पकपिलकेशश्मश्रस्तीक्ष्णोऽतितीक्ष्णाग्निः ॥ क्षिप्रवलीपलितश्च प्रसृष्टविट्स्वेदमूत्रवातश्च । विनश्च कक्षगन्धो मध्यबलः पैत्तिकः पुरुषः ॥ स्निग्धोपचितशरीरः प्रसन्नवर्णेन्द्रियस्वरो बलवान् । धृतिमान् विलम्बितगतिः सुकृत्स्नगन्धो दृढग्राही ॥ मन्दप्रलापचेष्टाक्षुत्तृष्णास्वेददोषसंतापः। देशे काले चोष्णे भवत्यरोगः कफप्रकृतिः ॥ प्रकृतिद्वयसंसर्गात् संसृष्टः प्रकृतिलक्षणैः सर्वैः। संयुक्तः समधातुः स भवत्यल्पामयो बलवान्" ॥ पञ्चभूतात्मका ह्यपराः सुश्रुतेनोक्ताः । "प्रकृतिमिह नराणां भौतिकी केचिदाहुः पवनदहनतोयैः कीर्तितोस्तास्तु तिनः । स्थिरविपुलशरीरः पार्थिवश्च क्षमावान् शुचिरथ चिरजीवी नाभसः खैमहद्भिः । अन्यैश्च त्रिगुणात्मिका षोडशविधा प्रकृतिरुद्दिष्टा । तथा च चरकः-'शुद्धा सप्तविधा ब्रह्मर्षिशक्रयमवरुणकुवेरगन्धर्वसत्वानुकारेण । राजसस्य षड्विधा दैत्ययक्षराक्षसपिशाचप्रेतशकुनिसत्वानुकारेण। तामसस्य च त्रिविधा पशुमत्स्यवनस्पतिसत्वानुकारेण। तेषां यथासत्वमुपकारः स्यादिति। एवं प्रकृतिपरीक्षा संक्षेपेणोक्ता ॥ एवं दोषादीन् परीक्ष्य नानाप्रकारपवनादिगदातुराणां इदमुक्तं चिकित्सितम् । पवन आदिर्येषां ते पवनादयः। तैर्गदाः पवनादिगदाः । नानाप्रकाराश्च ते पवनादिगदाश्च तैः आतुराः नानाप्रकारपवनादिगदातुराः । तेषां चिकित्सितं साधनं इदमग्रतो वक्ष्यमाणमुक्तम् । न तु कर्मजानामिति। कर्मजानां दोषादिपरीक्षणं निष्प्रयोजनमेव । तेषां हि दैवव्यपाश्रयं चिकित्सितं मन्त्रौषधिमंगलादिकमुक्तम् । अतो दोषजानामेवेदमुक्तम् । इत्युत्तीर्णाः स्म इत्यतो दोषप्रदेशादिश्लोकदुर्गात् ॥ १६ ॥
दोष (वात, पित्त, कफ, रज, तम ), प्रदेश (भूमी, रोगी), बल, काल, विकार, मन, सात्म्य, औषध, अग्नि, वय ( आयु ) तथा प्रकृति आदि की परीक्षा करके नानाविध दोषज व्याधियों से पीडित पुरुषों के उपकार के लिये इस ग्रन्थ में चिकित्सा कही गई है। कर्मज व्याधियों की चिकित्सा का इसमें वर्णन नहीं ॥ १६ ॥