________________
चिकित्साकलिका। परतोऽन्नादा इति । षोडशसप्तत्योरन्तरे मध्यं वयः। तस्य विकल्पाः वृद्धिौवनं सर्वसंपूर्णता हानिरिति। तत्राविंशतेवृद्धिः, आत्रिंशतो यौवनं, आचत्वारिंशत् सर्वधात्विन्द्रियबलसंपूर्णता, अत ऊर्ध्वमीषत्परिहानियावत् सप्ततिरिति । सप्ततेस्तू_क्षीयमाणधात्विन्द्रियबलवर्णोत्साहमहन्यहनि वलीपलितखालित्यजुष्टं कासश्वासप्रभृतिभिरभिभूयमानं सर्वक्रियावसमर्थ जीर्णागारमिव सर्वाभिवृष्टमवसीदन्तं वृद्धमाचक्षते । तत्रोत्तरोत्तरासु यौवनावस्थासूत्तरोत्तरा भेषजमात्राविशेषाः ऋते परिहानेस्तत्र सापेक्षया प्रतिकुर्वीत । बाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु । भूयिष्ठं वर्द्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ॥ अग्निक्षारविवेकैस्तुबालवृद्धौ विवर्जयेत्। तत्साभ्येषु विकारेषु मृद्वी कुर्यात् क्रियां शनैरिति” ॥ वयः परीक्षा संक्षेपेणोक्ता ॥ अथ वयापरीक्षानन्तरं प्रकृतिपरीक्षा आरभ्यते-अथ केयं प्रकृतिः ? कति भेदाः ? किं कारणम् ? किं चास्याः स्वलक्षणमिति ? उच्यते-केयं प्रकृतिरिति स्वभाव इत्यर्थः। सा चादिबलप्रवृत्ता। आनिषेका वाताधारब्धा आप्रयाणादनुवर्तते। कति भेदा इति-सप्तप्रकृतयो भवन्ति, दोषैः पृथक् द्विशः समस्तैश्च । किं कारणमिति ? तदाह-सुश्रतः-“शुक्रशोणितसंयोगे यो भवेद् दोष उत्कटः । प्रकृतिर्जायते तेन तस्या मे लक्षणं शृणु" ॥ इत्यादयः श्लोकाः सुश्रुते शारीरे सन्ति । केनाप्युक्तम्-'शुक्रासृग्गर्भिणीभोज्यचेष्टागर्भाशयतुषु । यः स्याद्दोषोऽधिकस्तेन प्रकृतिः सप्तधोदिता इति"॥ शुक्रादीनि कारणानि । यदुक्तं दोषोत्कट्यन प्रकृतिस्तदयुक्तं समत्वानुपपत्तेः। किं चान्यत् उच्छाये सति विकारभावः । विकारभावाच प्रकृतित्वं स्फुटितकरचरणादिविकारोपदेशात् प्रकृतिषु। प्रकृतित्वं त्रिदोषजप्रकृतेश्वाभावः सर्वोत्कट्याद्धि सर्वसाम्यम्। यस्मादेवं तस्माद्विकारा एव स्फुटितकरचरणादिकाः शीघ्रग्रन्थमतिमत्त्वादिगुणसमेताः प्रकृतिव्यपदेशभाजो भवन्ति । ते च विकाराः क्षुत्पिपासादिलक्षणवत् प्रकृतिलक्षणा एव न विकारसंज्ञाः फणिनां च स्वविषेण विकारानुत्पत्तिदर्शनात्। एवं प्राणिनामपि तद्भावेभ्यो विद्यते। कायस्य तु प्रकृत्या न विकारसंशाः। तदेवं दोषोत्कट्यादेव प्रसिद्धा प्रकृतिः। किं चास्याः स्वलक्षणीमीत यदुक्तं तदुच्यते चक्षुष्येणेन-"क्षापचितशरीरो रूक्षक्षाम