________________
३०
. चिकित्साकलिका। युक्तैर्गभस्तिभिः॥ विशोषयति सर्वाणि पल्वलानि सरांसि च। तद्वच्छरीरिणां भुक्तं जाठरो नाभिमास्थितः ॥ मयूखैः क्षिप्रमादत्ते नानाव्यञ्जनसंस्कृतम् । स्थूलकायेषु सत्वेषु यवमानं प्रमाणतः । ह्रस्वकायेषु सत्त्वेषु तिलमात्रप्रमाणतः ॥ कृमिकीटपतङ्गेषु त्वणुमात्रोऽवतिष्टते"। इत्यादि । तदायत्तं च शरीरप्रमाणच्छायोजोबलवर्णादि । स च त्रयोदशविधः। प्रधानो जाठरोऽन्नस्य पक्ता अशितपीतलीढखादितं षड्रसं आहारं पचति । तस्य पच्यमानस्य त्रयो मलाः सम्भवन्ति विण्मूत्रक्लेदाः। तैर्विरहितोऽपरः सारभूतो रसो भवति। तस्य रसस्य मलानां च विवेचयिता वायुः जाठरस्याग्नेर्ध । तेषु चाग्निषु पञ्चभूताग्नयः । ते च पांचभौतिकस्याहारस्य स्वान् पार्थिवादीन् विशेषगुणान् पचन्ति । तथापरे सप्तधात्वग्नयः । ते च रसादीनां सप्तधातूनां पक्तारः । आहाररसेन निषिच्यमानस्य स्वेनाग्निना पच्यमानस्य रसस्य श्लेष्मा मलं संभवति । ततो रक्तस्य स्खेनाग्निना पच्यमानस्य पित्तम् । ततो मांसस्य स्वेनाग्निना पच्यमानस्य छिद्रेषु मलम् । ततो मेदसः स्वेनाग्निना पच्यमानस्य स्वेदो मलः । ततोऽस्नः स्वेनाग्निना पच्यमानस्य नखरोमादि मलम् । ततो मज्ज्ञः स्वेनाग्निना पच्यमानस्य अतिविट्त्वकस्नेहो मलः । ततः शुक्रस्य स्खेनाग्निना पच्यमानस्य मलाभावोऽत्यन्तनिर्मलत्वात् । एवं त्रयोदशभिरग्निभिरिदं शरीरं पाल्यते सारमलविवेचनात्। तथा च चरकः-" आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा। ओजस्ते. जोऽग्नयः प्राणाश्चोक्ता देहेऽग्निहेतुकाः । शान्तेऽग्नौ म्रियते युक्ते चिरंजीवत्यनातुरः ॥ रोगी स्थाद्विकृते मूलमग्निस्तस्मान्निरुच्यते । यदन्नं देहधात्वोजोबलवर्णादिपोषकम् । तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः । अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक् । देहे प्रीणाति गन्धादीन् प्राणादीनिन्द्रियाणि च। भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः। पञ्चाहारगुणान् स्वान् स्वान्पार्थिवादीन् पचन्त्यनु । यथास्वं स्वंच पुष्णन्ति देहे द्रव्यगुणान पृथक् । पार्थिवाः पार्थिवानेव शेषाः शेषाँश्च कृत्स्मशः । सप्तभिर्देहधातारो धातवो द्विविधं पुनः । यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् ॥ रसाद्रक्तं ततो मांसं मांसान्मेदोऽस्थि मेदसः । अस्नो मजा ततः शुक्रं शुक्राद् गर्भः प्रजायते ॥ रसात् स्तन्यं