________________
चिकित्साकलिका |
२९
मात्मना किञ्चित्किञ्चिद्वीर्येण सेवितम् । किञ्चिद्रस विपाकाभ्यां दोषं हन्ति करोति वा " । तद् द्रव्यमात्मना किश्चिदिति यदुक्तं तदात्मशक्तथा किञ्चित् किञ्चिद्रसादिकरणशक्तया दोषं हन्ति करोति चेति संक्षेपार्थः । तथान्यैरप्युक्तं - " सामान्यविशेषात्मकमिह कुरुते द्रव्यमेव कर्माणि । तच्चापि करणशक्तघा निजशक्त्या वा न गतिरन्या" । या चैषा निजशक्तिद्रव्यरसादिकरणनिरपेक्षा सैव प्रभावशब्देन चांदिता चरकमुनिनापि । तथा च चरकः - 'रसवीर्य्यविपाकानां सामान्यं यस्य लक्ष्यते । विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः ॥ त्रिकटुः कटुकः पाके वीर्योष्णचित्रको लघुः । तद्वद् दन्ती प्रभावाद्धि विरेचयति सा नरम् । विषं विषघ्नमुक्तं यत्प्रभावस्तत्र कारणम् । ऊर्ध्वानुलोमिकं यच्च तत्प्रभावेण भावितम् । मणीनां धारणीयानां कर्म यद्विविधात्मकम् । तत्प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते।” एवं प्रभावस्वरूपमुक्तम् । पुनरपि त्रैविध्यं द्रव्यस्य दीपप्रशमनधातुदृषणस्वस्थवृत्तोपयोगिद्वारेण चरकाचार्येणोक्तं – “किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम् । स्वस्थवृत्तौ मतं किञ्चित् द्रव्यं त्रिविधमुच्यते” । पुनरप्यन्येन प्रकारेण त्रैविध्यमुक्तं औषधस्य चरकेण । “त्रिविधमौषधमिति दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्वावजयश्चेति । तत्र दैवव्यपायचं - मन्त्रौषधिमणिमंगलबल्युपहार होम नियम प्रायश्चित्तोपवासस्वस्त्ययन प्रणिपाततीर्थगमनादि । युक्तिव्यपाश्रयंपुनराहारविहारौषधानां द्रव्याणां योजना । सत्वावजयस्तु अहितेभ्योऽर्थेभ्यो मनोनिग्रहः” । “शारीरदोष प्रकोपे तु खलु शरीरमेवाश्रित्य पुन- रपि त्रिविधं औषधमिच्छन्ति । अन्तःपरिमार्जनं बहिः परिमार्जनं शस्त्रप्रणिधानश्चेति । तत्रान्तः परिमार्जनम् यदन्तः शरीरमनुप्रविश्य औषधं आहारजातं च व्याधिं परिमार्ष्टि तदन्तः परिमार्जनम् । यत्पुनर्बहिःस्पर्शनमाश्रित्याभ्यंगस्वेद प्रदेहपरिषेकोन्मर्द नाद्यैरामयान् परिमार्ष्टि तद्बहिःपरिमार्जनम् । शस्त्रप्रणिधानं पुनः छेदन भेदनव्यधन दारणलेखनोत्पाटन सीवनप्रच्छादन जलौकसश्चेति" । एवमौषधपरीक्षा संक्षेपेणोक्ता ॥ औषधपरीक्षानन्तरं अनलपरीक्षामाह - अनिलोऽग्निस्तस्य च नाभिः स्थानम् । तथा चोक्तं तन्त्रान्तरेषु - " नाभिमध्ये शरीरस्य विज्ञेयं सोममण्डलम् । सोममण्डलमध्यस्थं विद्यात् सूर्य्यस्य मण्डलम् ॥ प्रदीपवत्तत्र नृणां स्थितो मध्ये हुताशनः । सूर्यो दिवि यथा तिष्ठन् तेजो