________________
चिकित्साकलिका। विक्लित्तिःस विपाकः । तथाऽन्यैरप्युक्तम्-'जाठरानलसम्पर्काद् यदुदेति रसान्तरम् । रसानां परिणामान्ते स विपाक इति स्मृतः ॥ पक्के त्वाम्रादिफले पूर्वो हि यथा रसः स्थिरो भवति। प्रादुर्भवेद्रसोऽन्यः परिणामाख्यस्तथाहारे। स च त्रिविधश्चरकाचार्येणोक्तः-“कटुतिक्तकषायाणां विपाकः प्रायशः कटुः। अम्लोऽम्लं पच्यते स्वादुमधुरो लवणस्तथा ॥ मधुरो लवणाम्लौ तु स्निग्धभावात् त्रयो रसाः । वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः। कटुतिक्तकषायास्तु रूक्षभावात् त्रयो रसाः । दुःखा विमोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम् । शुक्रनो बद्धविण्मूत्रो विपाको वातलः कटुः ॥ मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः । पित्तकृत् सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः ॥ तेषां गुरुः स्यात् मधुरः कटुकाम्लावतोऽन्यथा" । सुश्रुताचार्येणापि द्विविधः पाकः प्रोक्तः-मधुरः कटुश्च । “द्रव्येषु पच्यमानेषु येवम्बुपृथिवीगुणाः । निर्वर्त्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ॥ तेजोनिलाकाशगुणाः पच्यमानेषु येषु च। निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते” । तयोर्मधुराख्यो गुरुः, कटुकाख्यो लघुरिति । गुरुः पाको वातपित्तनः । लघुः श्लेष्मनः । गुरुः पाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च । लघुर्बद्धविण्मूत्रतया मारुतकोपेन च। चरकादीनामपि पाकद्वयमभिप्रेतम्मधुर कटुकाख्यम् । यतस्ते उक्तवन्तः। “तेषां गुरुः स्यान्मधुरः कटुकाम्लवतोऽन्यथा"। इति लघुरित्यर्थः । यद्येवं कथमुच्यते "मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः । उष्णाः कषायाः पाकेऽम्लाः कफशुक्रानिलापहाः। कुलत्या इति" ? उच्यते-अम्लकारित्वसामर्थ्यात् अम्लपाका उक्काः। वीर्येणोष्णेन कुलत्थस्य पित्तकरत्वं सिद्धम् । नार्थोऽम्लपाकत्वेन। व्रीहिश्च प्रभावात् वीर्योष्णः पित्तकृद्भविष्यति नार्थोऽम्लपाकतयेति । एवं विपाकः उक्त इति । एषां च रसगुणवीर्यविपाकानामुपलन्धिश्चरकाचार्येणोक्ता-रसो निपाते द्रव्याणां विपाकः कर्मनिष्ठया। वीर्य यावदधीवासान्निपाताञ्चोपलभ्यते” इति ॥ अथ प्रभाव उच्यतेअथ कोऽयं प्रभावो नाम ? भवनं भावः प्रकृष्टो भावः प्रभावः । द्रव्यस्य विशिष्टशक्त्याधिष्ठितत्वेन विशिष्टजन्मना यासौ द्रव्यविशिष्टा निजशक्तिःसा प्रभावशब्देनोच्यते । तथा चोक्कं सुश्रुताचार्येणापि-"तद्व्य