________________
चिकित्साकलिका। कटुतिक्तकाः । जनयन्त्यनिलं पित्तं कट्वम्ललवणा रसाः ॥ स्वाद्वम्ललवणा वायु कषायस्वादुतिक्तकाः । जयन्ति पित्तं श्लेष्माणं कषायकटुतिक्तकाः ॥” इति । तथा च-" कट्वम्ललवणाः पित्तं स्वाद्वम्ललवणाः कफम् । कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ॥” ते च परस्परसंसर्गात् त्रिषष्टिधा भवन्ति । सा च त्रिषष्टी रसभेदानां द्विषष्टिदोषभेदानां स्वांशांशबलविकल्पद्वारेणोपयोगतां याति । तथा चोक्तं चरकाचार्येण-"क्वचिदेको रसः कल्प्यः संयुक्ताश्च रसाः क्वचित् । दोषौषधादीन्सञ्चिन्त्य भिषजा सिद्धिमिच्छता ॥ द्रव्याणि द्विरसादीनि संयुक्तांश्च रसान बुधाः । रसानेकैकशश्चापि कल्पयन्ति गदान प्रति ॥ यस्मात् द्रव्यादिकल्पज्ञः सर्वदोषविकल्पवित् । न स मुह्येद्विकाराणां हेतुलिंगोपशान्तिषु ॥ एवं रसा व्याख्याताः ॥ इत्यतो गुणा विचा
र्य्यन्ते-“शीतोष्णस्निग्धरूक्षाश्च मन्दस्तीक्ष्णो गुरुलघुः। पिच्छिलो विशदः श्लक्ष्णः परुषः कठिनो मृदुः ॥ द्रवसान्द्रस्थिरसराः स्थूलसूक्ष्माश्च विंशतिः। परस्परप्रत्यनीका द्वन्द्वशोऽवस्थिता गुणाः ॥ द्रव्येप्येते गुणाः सन्ति त्रिषु चाप्यनिलादिषु । तुल्यैर्गुणैर्दोषवृद्धिर्विपरीतैः परिक्षयः" ॥ एवं गुणाः खरनादेनोक्ताः ॥ इदानी वीर्यमुच्यते-वीर्यशब्दस्तु शक्तयध्यवसायोष्ण्यादिगुणशुक्रेषु वर्तते । तत्र शक्तौ तावद्र सायनं ब्राह्मयमुदारवीर्यमिति उदारशक्तिरित्यर्थः ॥ अध्यवसाये"वीर्य बलवर्द्धनानाम्।” अध्यवसायो बलवर्द्धनानामिति । औषण्यादिषु गुणेषु वीर्य्यसंज्ञात्वं तद्यथा-"तानि शीतानि कर्माणि विद्यादामलके ध्वपि। यान्युक्तानि हरीतक्यां वीर्य्यस्य तु विपर्ययः।” उष्णगुणा हि हरीतकी, धात्रीफलेषु शैत्यम् , एवं विपर्ययः । यथा शीतोष्णत्वात् विरुद्धवीर्य विरुद्धगुणमिति । शुक्रे वीर्यसंपत्त्या विवर्द्धमानान् शुक्रविवर्द्धनानित्यर्थः । तदेवमनेकभेदाभिधाय्यपि वीर्यशब्द इह गुणाभिधायी । तथा च चरकः- मृदु तीक्ष्णं गुरु लघु रूक्षस्निग्धोष्णशीतलम् । वीर्य्यमष्टविधं केचित् केचिद् द्विविधमास्थिताः ॥ शीतोष्णमिति वीर्य तु क्रियते येन या क्रिया । नावीर्य कुरुते किञ्चित् सर्वा वीर्यवती क्रिया ।' एवं वीर्य्यमुक्तम् ॥ विपाको विचार्यत-तत्र विपाको नाम पाच्यार्थाहारार्थादेव जाठराग्निसंयोगादौष्ण्यापेक्षं यदुदेति निष्ठाकाले गुणान्तरं तण्डुलेष्विव