________________
चिकित्साकलिका। क्रिया स्निग्धा विधीयते । रूक्षा स्नेहनिमित्ते तु शोकजे शोकनाशिनी ॥' व्याधिविपरीतं तु-दोषप्रत्यनीकं व्याधिप्रत्यनीकं च । तत्र दोषप्रत्यनीकं यथा-वातजे गदे मधुराम्ललवणस्निग्धोष्णं कर्त्तव्यम्। व्याधिप्रत्यनीकं यथा-'कुष्ठे खादिरं सारं, प्रमेहे हरिद्रा, ज्वरे पर्पटकं, बस्तिरोगे शिलाजतु । तदर्थकारि–हेत्वर्थ व्याध्यर्थं च यत्करोति तत्तदर्थकारि द्विधा । हेत्वर्थकारि व्याध्यर्थकारि च। तत्र हेत्वर्थकारि यथामदात्यये मद्यपानम् । व्याध्यर्थकारि यथा-वीषु वमनं, अतीसारे विरेचनमिति । औषधशब्देन द्रव्याण्युच्यन्ते। तानि च अनेकभेदभिन्नानि । तथा च खरनादः-'पञ्चभूतात्मिकायोनिभूतानां सा चतुविधा । तासु योनिषु भूतानि द्विविधानि समासतः ॥ खानिलाग्निजलोभ्यिो भूतवर्गश्चतुर्विधः। जरायुजान्यण्डजानि स्वेदजान्यौद्भिदानि च ॥ तानि हि द्विविधान्याहुः स्थावराणि चराणि च । अतश्च द्विविधं द्रव्यं मतं स्थावरजंगमम् ॥ आग्नेयं चैव सौम्यं च पुनर्द्विविधमुच्यते । शोधनं शमनं चैव तत्पुनर्द्धिविधं मतम् ॥ आग्नेयं शोषणं प्रोक्तं सौम्यं प्रक्लेदनं च यत् । तयोस्तु शोधनं द्रव्यं विरकवमनादिषु ॥ क्षयस्थानविवृद्धयर्थ दोषाणां यत्प्रयुज्यते । विना संशोधनद्रव्यं तत् संशमनमुच्यते ॥ गुरुसान्द्रखरस्थूलं स्थिरं गन्धगुणाधिकम् । भौमं द्रव्यं हि तत् स्नेहगौरवोपचयावहम् ॥ गुरु शीतं स्वादुरसं स्निग्धं मन्दं रसाधिकम् । आप्यं तत् स्नेहविष्यन्दमाईवक्लेदकारकम् ॥ रूक्षोष्णं तीक्ष्णविशदं लघुरूपगुणाधिकम् । द्रव्यं तत्तैजसं विद्याहाहपाकप्रभाकरम् ॥ रौक्ष्यपारुष्यवैशद्यशत्यस्पर्शगुणाधिकम् । वायव्यं तद्धि वैशधरौक्ष्यलाघवशोषकृत् । द्रव्यं लघु मृदु श्लक्ष्णं सूक्ष्म शब्दगुणाधिकम् । खात्मकं तद्धि शौषिर्याल्लघुकृन्माईवावहम् ॥ पञ्चात्मकत्वात् द्रव्याणां द्रव्यं नानौषधं भवेत् ॥" एवं भूतोद्रेकात्सर्वमेव द्रव्यं पञ्चभूतात्मकं व्याख्यातम् ॥ तच्च रसगुणवीर्यविपाकप्रभावद्वारेण विचार्यमाणं पुनरप्यनेकप्रकारं भवति। तत्र मधुराम्ललवणकटुतिक्तकषायाः षड्रसाः । तेषां कटुतिक्तकषाया वातं प्रकोपयन्ति । कदवम्ललवणाः पित्तम् । मधुरामललवणाः श्लेष्माणमिति। तथा मधुराम्ललवणा वातघ्नाः । मधुरतिक्तकषायाः पित्तनाः । कटुतिक्तकषायाः श्लेष्मना इति । तथा च चरकः-“कर्फ स्वाद्वम्ललवणाः कषाय