________________
चिकित्साकलिका। प्रकृतिसात्म्यादपि व्याधिसात्म्यं बलवत् । अतः सर्वेषां सात्म्यानां व्याधिसात्म्यस्य प्राधान्यमिति । कथमिदं गम्यत इति चेत् ? युक्तिवचनाभ्याम् । युक्तिस्तावत् सामान्यविशेषभावादुत्सगस्यापवादेन बाधो भवतीति ॥ तत्र ऋतुसात्म्यं सर्वदेशसामान्यं देशसात्म्यमेकदेशत्वात् विशेषः । देशसात्म्यमपि तत्र देशे सर्वपुरुषसामान्यम् । ओकासात्म्यं तु प्रत्यात्मिकत्वाद्विशेषः । ओकासात्म्यादपि व्याधिसात्म्यं बलवत् । ओकः सात्म्यं हि स्वस्थकाले सावकाशम् । व्याधिसात्म्यं तु कादाचित्कम् । तस्य कादाचित्कत्वात् शरीरपीडाहरत्वाञ्च प्राधान्यं चिकित्सामूलप्रयोगत्वाच्च । व्याधिसात्म्यं सर्वेभ्यः सात्म्येभ्यो बलवदिति युक्त्या बलवत्त्वं सात्म्ये प्रतिपादितम् । वचनेनापि इदानीं प्रतिपाद्यते ऋतुसात्म्यात् व्याधिलात्म्यं बलवदिति । तथा चोक्तम्-'ग्रीष्मवर्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः। श्लेष्मपित्ते दिवास्वप्नस्तस्मादेतेषु नेष्यते ॥' एवमुक्त्वा ऋतुसात्म्यं पुनराह-गीताध्ययनमद्यस्त्रीकर्मभाराध्यकर्शिताः। सर्व एव दिवास्वप्नं सेवेरन् सार्वकालिकमिति ॥ अतो वचनाद्विज्ञायतेऋतुसात्म्याद् व्याधिसात्म्यं बलवदिति । येन ऋतुसात्म्यस्य व्याधिसात्म्यस्यैवाबाधामाह । ग्रीष्मे दिवास्वप्नं ऋतुसात्म्यमुक्त्वा पुनराह । "मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः । दृषीविषाश्चि दिवान शयीरन् कदाचन ।” एवं वचनेन ग्रीष्मकालेप्येषां प्रतिषेधात् ऋतुसाम्यात् व्याधिसात्म्यं बलवदित्युक्तं भवति। नवज्वरे दिवास्वप्नस्नानपानप्रतिषेधात् , प्राप्मे काले च एवं विधानात् व्याधिसात्म्यं बलवदित्युक्तम् । तथा देशसात्म्यादोकासात्म्याश्चोभयस्मादपि व्याधिसात्म्यं बलवत् इति इच्छन्ति । यथोक्तम्-“येऽप्यतिलवणसात्म्याः पुरुषाः तेषामपि खलतीन्द्रलुप्तवलीपलितादिर्बलवान् प्रकोपो भवति । तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेय इति । अनागतखलतीन्द्रलुप्तव्याध्युत्पत्तिपरिहारार्थ देशशरीरसात्म्ययोरनागतव्याधिभयावर्जनमाह । तदेवं सिद्धे व्याधिसात्म्यस्य सर्वसात्म्येभ्यो बलवत्वात् प्रयोगः । इति सात्म्यपरीक्षा संक्षेपेणोक्ता ॥ सात्म्यपरीक्षानन्तरं औषधपरीक्षामाह-तच्चौषधं संक्षेपेण त्रिविधम् । हेतुविपरीतं व्याधिविपरीतं तदर्थकारि च । तत्र हेतुविपरीतं यथा-रोक्ष्यात् प्रवृत्तेऽतीसारे