________________
चिकित्साकलिका। आन्तरिक्षोदकं पिबेत्' ॥ यस्य वा यदुदकं सुखं परिणमति आरोग्य चोत्पादयति तत्तस्य सात्म्यम् । एवमष्टविधं सात्म्यमुक्तम् । रसवैशेषिके तथान्यदपि सार्वकालिकं सर्वपुरुषाणां सात्म्यमुक्तम् । “षष्टिकान् शालिमुद्गाँश्च सैन्धवामलके यवान् । आन्तरिक्षं पयः सर्पिबंगलं मधु वा चरेत्”। तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते। अजातानां विकाराणामनुत्पत्तिकरं च यदितिवचनात्। एवमेतानि बहूनि सात्म्यान्युक्तानि । तदेतेषां युगपत्सन्निपतितानां चिकित्साकाले किं प्रयोक्त. व्यमिति सन्देहः । तद् यथा-यदेतद् ऋतुसात्म्यम् तत् केषां चित् अनुचितं आतुरौकासात्म्येन भवति । तद्यथान्तर्वेद्यां गंगायमुनयोरन्तराले हेमन्ते क्षुद्राणां जनपदानां सक्तुभिरेव औचित्यादोकासात्म्यं भवति । तथा कस्यचिदत्यन्तश्लेष्मलस्य हेमेन्तेऽपि अपथ्यकृत् ऋतुसात्म्यं हेमन्तोक्तं तिक्तकषायकटुका एव रसाः औचित्यादोकसात्म्यं भवति । तत्र किं तावदोकः सात्म्यं क्रियतां आहोस्वित् ऋतुसात्म्यमिति । एवमेष सन्देहप्रकारोऽन्येष्वपि सात्म्येषु योजयितव्य इति । तत्रोच्यते-अविरोधो व्यामिश्राणां उपयोगवचनात् । यस्मादाचार्यः स्वयमेव सर्वाण्येतानि परस्परविरुद्धानि असात्म्यानि निर्दिशति न च परस्परव्याघातादेषां प्रयोगः संभवति । तस्माद्विज्ञायते क्वचिद् व्यामिश्राणां सात्म्यानां प्रयोगः। क्वचित् सर्वेभ्यो यस्य बलवत्वं तस्य प्रयोग इति । अन्यथा परस्परविरुद्धसात्म्योपदेशोऽनर्थक एव स्यात् । यस्माच्च व्यामिश्राणां क्वचित्प्रयोजनमाह तस्माद्विज्ञायते व्यामिश्रेणोक्तान्यपि प्रयोज्यानीति । तथा चोक्तम्-"तेषां तत्सात्म्यसिद्धानि भेषजान्यवचारयेत्” । व्याधिसात्म्यैर्देशसात्म्यैश्च भेषजैमिश्रस्य आहारस्य सात्म्यस्य मध्येऽनुप्रयोग उक्त इति । अथवान्यथा व्याख्यायते। अन्यान्यपि परस्परविरुद्धान्येकसात्म्योपदेशैरिति । शरीरसात्म्यप्रकृतिसात्म्यव्याधिसात्म्यानां किश्चिदेकं कस्याश्चिदवस्थायां बलवत्त्वात् प्रधानं यत्तस्यैव प्रयोगो भवति नेतरस्येति । सर्वेषां सात्म्यानां व्याधिसात्म्यं बलवदिति विज्ञेयम् । व्याधिसात्म्येन हि सर्वाणि सात्म्यानि विरुद्धधमानानि बाध्यन्ते। तत्र ऋतुसात्म्यात् देशसात्म्यं बलवत् । देशसात्म्यात् शरीरसात्म्यं बलवत् । ओकासात्म्यमेव हि शरीरसात्म्यमुच्यते नान्यदिति । शरीरसात्म्यात्प्रकृतिसात्म्यं बलवत् ।