________________
२३
चिकित्साकलिका। दाक्षिणत्यानां यवागूः । प्राचां गुडपत्रशाकमत्स्यादि । फलमूलकन्दशाकान्याहुः सात्म्यानि शैलदेशानाम् । इत्येवं चतुर्विधं सात्म्यमुकं चक्षुष्येणेन । षड्विधं च खरनादः-दोषप्रकृतिदेशर्तुव्याधिसात्म्यमथौकजम् । सात्म्यं षड्विधमुद्दिष्टमसात्म्यं तद्विपर्ययात् ॥दोषप्रकृतिदेशर्तु व्याधीनां स्वगुणैः पृथक् । विपरीतगुणोऽसात्म्यं तुल्यत्वात्सात्म्यमुच्यते ॥ सामान्येनोपशेते यत् दोषसात्म्यं तदुच्यते। उपशेते यदौचित्यादोकसात्म्यं तदुच्यते । औचित्यात् सात्मीभावात् । सातत्यप्रयोगादोकसात्म्यं तदुच्यते । असात्म्यं चानुपशयं सात्म्यं चोपशयं विदुः । इत्येवं षड्विधं सात्म्यमसात्म्यं चोक्तं खरनादेन । सात्म्यं पुनरष्टविधम् । जातिरोगातुरधान्यरसदेशजूंदकसात्म्यसंज्ञम् । सात्म्यलक्षणं तु औचित्यम् । एवं ह्याह सात्म्यं औचित्यमिति । तत्र जातिसात्म्यं नाम यदस्य जन्मप्रभृत्युचितं तत्पुनः क्षीरं घृतं च । रोगसात्म्यं नाम यदस्य रोगस्योपयुक्तं सुखं परिणमति बलवर्णदं च भवति । आतुरसात्म्यं नाम येन यस्मिन् व्याधौ शान्तिर्भवति तत् तस्मिन् व्याधौ आतुरसात्म्यम् । तथा हि-यवक्षारतक्रेणामातीसारः शममेति । अथवा यस्यरोगस्य यत्सामान्येन प्रशस्तं तस्मिन् रोगे तदातुरसात्म्यम् । यथा गुल्मिनां क्षीरम । उदावर्त्तिनां घृतं प्रमेहिणां मधु । तथा चोक्तं—“वर्णवान् बलवान् गुल्मी नित्यं क्षीराशनो भवेत् । तस्मात् क्षीरं निषेवेत तत्तस्य परमौषधम् ॥ न कथंचिदुदावर्ती रूक्षं भुञ्जीत भोजनम्। पीत्वा प्राग्भोजनात्सर्पिः स्निग्धं भुञ्जीत भोजनम् । मधु श्लेष्मघ्नमुद्दिष्टं नित्यं पथ्यं प्रमेहिणाम् ॥" धान्यसात्म्यं नाम शालिषष्टिकबीहियवगोधूमप्रभृतीनां धान्यानां यस्य यत्सुखं परिणमति आरोग्यं चोत्पादयति तत्तस्य धान्यसात्म्यम् । रससात्म्यं नाम मधुराम्ललवणकटुतिक्तकषायाणां षण्णां रसानां यस्य यः सुखं परिणमति आरोग्यं चोत्पादयति । देशसात्म्य नाम आनूपजांगलसाधारणेषु यद् यत्र पथ्यं तत्तत्र सात्म्यम् । ऋतुसात्म्यं नाम यस्मिन् यस्मिन् ऋतौ यद् यत् पथ्यं तत्तस्मिन् तस्मिन् सात्म्यम् । उकसात्म्यं नाम 'नादेयपार्वतीयोदपानकरकान्तरिक्षप्रभृतीनां उदकानां यद् यत् पथ्यं तत्तत्सात्म्यम् । एवं ह्याह-'नदीनामुदके दुष्टे उदपानोदकं पिबेत् । उदपानोदके दुष्टे