________________
चिकित्साकलिका। यथास्वम्। अन्यलक्षणे भाविनि व्याधौ प्रयतेत। पुनश्च अन्यथा परीक्षोक्ता चरकेण-"आचार्य्यस्योपदेशेन प्रत्यक्षकरणेन च । अनुमानेन च व्याधीन सम्यक् विद्याञ्चिकित्सकः ॥ आगन्तुरन्वेति निजं विकारं निजस्तथागन्तुमतिप्रवृद्धः । तत्रानुबन्धं प्रकृतिं च सम्यक् ज्ञात्वा ततः कर्म समारभेत"॥ इति संक्षेपेणोक्ता विकारपरीक्षा ॥ विकारपरीक्षानन्तरंसत्वपरीक्षाधिक्रियते । सत्वं तु व्यसनाभ्युदयक्रियादिस्थानेवधिक प्राणकरम् । 'सत्ववान् सहते सर्व संस्तभ्यात्मानमात्मना । राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः ॥' इति सुश्रतः॥ सत्वमपि द्विविधम्-'भीरुत्वं सहिष्णुत्वञ्च । तत्र सहिष्णौ तीक्ष्णां मृद्वी वा यथोक्तामेव क्रियामारभेत । इतरसिंस्तु मृद्वी न तु तीक्ष्णाम् । तीक्ष्णसाध्ये तु व्याधौ क्रमेण तीक्ष्णां क्रियामाश्वास्यातुरं कुति।एवं आरोग्यहेतुर्भवति। विपर्यये मिथ्येति'। अथ रसवैशेषिकः-"प्रवरावरमध्यबलं सत्वं त्रिविधम् । प्रवरकास्तत्र त्यक्तविषादा धीराः शूरा बलिनो महोत्साहाः । स्वल्पशरीरा ह्यपि ते विविधामपि आगन्तुदेहजां पीडां संप्राप्य न व्यथन्ते नापत्सु च विभ्रमं यान्ति। मध्यमसत्वास्तु नराःगुणवन्तस्त्वपरानात्मन्युप निधाय संस्तम्भयन्ति चात्मानम् । संस्तम्भिताश्च परैरास्थास्थैर्यत्वमुपयान्ति । पुरुषास्तु हीनसत्वाः शरीरवन्तोऽपि वेदनां प्राप्य स्वल्पामपि व्यथन्ते स्वल्पेऽपि भयेऽवसीदन्ति । बीभत्सरौद्रभैरवकथासु पशुपुरुषशोणितान्यथवा दृष्टा विषादमूप्रिलपनमरणानि यान्त्याशु"। चक्षुष्येणादपि संक्षेपेणोक्ता सत्वपरीक्षा ॥ सत्वपरीक्षानन्तरं सात्म्यपरीक्षा आरभ्यते-किमिदं सात्म्यं नाम? आत्मशब्दो हि मनःपरमात्मदेहादिवृत्तिरपि शरीरे वर्त्तते । सह आत्मना वर्तत इति सात्म तद्भावः सात्म्यम् । तथा चोक्तम्-'सात्म्यं नाम तद्यदात्मनि काय उपशेत इति'। सात्म्यार्थो ह्युपशयार्थः । तत्त चतुर्विधमुक्तं नरस्य देहतरोगदेशभेदेन । अनुशेते यद्देहं सौहित्यादेहसात्म्यं तत्। ऋतुसात्म्यं यथा-स्निग्धोष्णं हेमन्ते शिशिरे च । कटुतिक्तरुक्षाणि शिशिरान्ते शस्यन्ते । ग्रीष्मे सुखशीतमधुराणि । व्याधेः सात्म्यं विद्यात् ज्वरस्य पेया विरेचनं छर्दिः स्वेदो नस्यं तु धूमस्तथा व्याधौ सात्म्यं प्रतिश्याये प्रसेक इति । देशसात्म्यं यथा-मधुरमांसशालिगोधूमभोजनं पश्चिमोत्तरापथगानाम् । मत्स्यलवणे तु सैन्धवसौराष्ट्रिकसौवीरकादीनाम् ॥