________________
चिकित्साकालिका। प्रमेहा विंशतिर्मताः । इत्येवमाद्या रोगाणां संख्या चोक्ता पृथक् पृथक् ॥ विधिर्नाम द्विधा रोगास्त्रिविधाः सप्तधापि च । दशधाः परिसंख्याता रोगानीके यथा मताः ॥ विशेषं विद्धि रोगाणां योगात्तरतमात्मकात्। तरो द्वंद्वप्रकर्षे तु तमो बहुषु चोच्यते दोषाणां समवेतानामशांशबलकल्पनैः । ज्ञेयं बलविशेष तद्वि. शेष कालजं शृणु ॥ व्याधीनामृत्वहोरात्रनियमाद्भोजनस्य वा । विशेषो विद्यते यस्तु कालापेक्षः स उच्यते ॥ वसन्ते श्लेष्मजा रोगाः शरत्काले तु पित्तजाः । वर्षासु वातजाश्चैव प्रायः प्रादुर्भवन्ति हि ॥ निशान्ते दिवसान्ते च बलिनो वातजा गदाः । अहःक्षपादौ कफजास्तयोर्मध्ये तु पित्तजाः ॥ जीर्णेऽन्ने वातजा रोगा जीर्यमाणे च पित्तजाः। श्लेष्मजा भुक्तमात्रेऽन्ने लक्ष्यन्ते बलिनो मलाः” इति ॥षड्विधं च रोगपरीक्षणमुक्तं सुश्रुताचार्येण । “पड्विधो हि रोगाणां विज्ञानोपायः। पञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति । तद्यथा तत्र श्रोत्रेन्द्रियविज्ञेयाः सन्ति विशेषा रोगेषु ये व्रणास्रावविज्ञानीयादिषु वक्ष्यन्ते सफेनं रक्तमारयन्ननिलः सशब्दो निर्गच्छतीत्येवमादयः। त्वगिन्द्रियविज्ञेयाः शीतोष्णलक्ष्णकर्कशमृदुकठिनत्वादयो ज्वरशोफादिषु । रूपेन्द्रियविज्ञेयाः शरीरोपचयापचयायुर्लक्षणबलवर्णविकारादयः । रसनेन्द्रियविज्ञेयाः प्रमेहादिषु रसविशेषाः। गन्धेन्द्रियविज्ञेया अरिष्टलिङ्गादिषु वणानामवणानाञ्च गन्धविशेषाः । प्रश्नेन च विजानीयाद् देशं कालं जातिं सात्म्यमातङ्कसमुत्पत्तिं वेदनासमुच्छायं बलं दीप्ताग्नितां वातमूत्रपुरीषाणां प्रवृत्तिमप्रवृत्तिञ्च कालप्रकर्षादींश्च विशेषान्" । पुनस्तेनैव सुश्रुतेनान्यथात्वमुक्तं व्याधीनां परीक्षणार्थम् । “व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्याः याप्याः प्रत्याख्येयाश्च । तत्रैतान् भूयस्त्रिधा परीक्षेत । किमसावौपसर्गिकः प्राक्केवलोऽन्यलक्षणो वेति ? तत्रौपसर्गिको नाम यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्रवसंज्ञः । प्राक्केवलो यः प्रागेवोत्पन्नो व्याधिरपूर्वरूपो निरुपद्रवश्च । अन्यलक्षणो यो भविष्यद्वयाधीनां ख्यापकः स पूर्वरूपसंज्ञः । तत्र सोपद्रवमन्योन्याविरोधोनोपक्रमेत बलवन्तमुपद्रवं वा । प्राक्केवलं