________________
चिकित्साकलिका। तथेतरे।आपश्च कटु पच्यन्ते रूक्षस्तीक्ष्णस्तथा रविः॥ तस्माच्छ्लेष्मा शर्म याति मारुतश्चोपचीयते । समेघवाताभिहतो वायुर्वर्षासु कुप्यति । शरकालेऽर्कसन्तापात्स च वायुः प्रशाम्यति । चय प्रकोपोपशमान गच्छन्त्येवं त्रयो मलाः॥ ऋतुसन्धौ विधिः पूर्वस्त्यक्तव्योऽल्पाल्पशः क्रमात् । सेव्यश्चानागतो युक्त्या स्वल्पाल्पोपचयःक्रमात् ॥असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात् ॥ ऋत्वोरन्त्यादिसप्ताहं सन्धिरित्यभिधीयते ॥” इति कालपरीक्षा समाप्ता ॥ कालपरीक्षानन्तरं विकारपरीक्षा प्रस्तूयते-विकारपरीक्षा सम्यक्विकारपरिज्ञानम्। विकारोरोगः । विकारपरिज्ञानपूर्वकं हि चिकित्सितं भिषक्शास्त्रे। तथा चोक्तं चरकाचार्येण-रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् । ततः कर्म भिषक् पश्चात् ज्ञानपूर्व समाचरेत्' इति ॥ तच्च निदानसंप्राप्तिपूर्वरूपरूपोपशयैः पञ्चभिरुपायैर्भवति । निदानं च द्विविधं-सामान्यं वैशेषिकञ्च । तत्र सामान्यं वातस्य रूक्षतिक्तकषायादि। पित्तस्य कवम्लोष्णादि । श्लेष्मणः गुरुमधुरातिशीतादिभिर्वक्ष्यमाणकम् ॥ वैशेषिकं प्रतिरोगमुक्तम् । पुनश्च त्रिभेदभिन्नम् । तथोक्तं चरकेण-“कालबुद्धीन्द्रियार्थानां योगो मिथ्याति वा न च । द्वैधाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रहः" ॥ निदानादीनां पश्चानामपि स्पष्टलक्षणं खरनादेनोक्तम्-"निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा। संप्राप्तिश्चेति मन्तव्यो व्याधेः पञ्चविधो ग्रहः॥ निदानं प्रत्ययो हेतुः कर्त्तायतनकारणम्। निमित्तं सम्भवो ज्ञानं शब्दाः पर्यायवाचकाः ॥ निदानं सर्वरोगाणां त्रिविधं च समासतः । दुष्टाहारो विहारश्च कर्म प्राग्दैहिकं च यत् ॥ भविष्यद्वयाधिलिङ्गानि पूर्वरूपमिति स्मृतम्। तद्रूपशब्दैः प्राक्शब्द संयुक्तैर्बहुधोच्यते ॥ अव्यक्तलिङ्गं स्वं स्वं स्यात् व्याधीनां पूर्वलक्षणम् । तदेव व्यक्ततां यातं रूपमित्यभिधीयते ॥ रूपं निदर्शनं चिह्न व्यंजनं लिङ्गमाकृतिः। संस्थानं लक्षणं चैव पर्यायै रूपमुच्यते ॥ हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम्। औषधानविहाराणामुपयोगं सुखावहम्॥ विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः। अतोऽन्यथानुपशयो ब्याध्यसात्म्याख्य उच्यते ॥ सप्राप्तिरागतिर्जातियाधीनामभिधीयते । सा संख्या विधिवैशेष्यबलकालैर्विभाव्यते । अष्टौ ज्वराः पञ्च गुल्माः