________________
चिकित्साकलिका। मित्तं संख्यापरिमाणं वा निमेषकाष्ठाकलामुहूर्ताहोरात्रपक्षमासर्वयनसंवत्सरयुगादिभिः स कालः। वैद्यके तु संवत्सरशरीरस्य ऋत्वङ्गिनः कालस्य ग्रहणम् । तस्यौपयोगिकत्वाञ्चिकित्सायाम् । तथा च क्षारपाणिः-'शिशिरश्च वसन्तश्च ग्रीष्मप्रावृदशरद्धिमाः। ऋतवः षट् क्रमादेते कालः सम्वत्सरात्मकः ॥ द्विधा त्वयनभेदेन स्मृतः सम्वत्सरस्त्वसौ। तच्चादानं विसर्गाख्यं रविचाराद् द्विधायनम् ॥ उत्तरायणमादानं शिशिराद्यं ऋतुत्रयम् । वर्षादि तु विसर्गाख्यं सवितुर्दक्षिणायनम् ॥ मेहादानविसर्गाच्च तत्संशमयनद्वयम्। आग्नेयं विद्धि चादानं विसर्ग सौम्यमत्र तु ॥ आदाने तु जगत्स्नेहमाददानो दिवाकरः। रूक्षत्वात् शोषयेद्वायुः शिशिराद्यर्तुषु क्रमात् ॥ रूक्षो निर्वर्तयन्तिक्तकषायकटुकान् रसान् । नृणां क्रमेणावहति दौर्बल्यमृतुषु त्रिषु ॥ विसर्गे विसृ. जन् स्नेहं सदा स्निग्धश्च मारुतः । सोमश्चाव्याहतबलः स्निग्धो निर्वर्तयेद्रसान् ॥ क्रमेणैवाम्ललवणमधुरान् ऋतुषु त्रिषु। बलं च वर्द्धयत्येषां क्रमेणाभ्रागमादिषु ॥ हेमन्ते शिशिरे चाग्यूं ग्रीष्मे वर्षासुचावरम् । शरद् वसन्तयोर्मध्यं बलं स्यात्प्राणिनां मतम् ॥ तथा स्वरसनिर्वृत्या शैत्योष्ण्याधान्ति च क्रमात् । पित्तादयश्चयं को शान्तिञ्चाभ्रागमादिषु ॥ पित्तं वर्षासु शरदि प्रकोपं याति हैमने। शमं यात्येष पित्तस्य चयकोपशमक्रमः ॥ शिशिरे च वसन्ते च ग्रीष्मे चैव कफस्य च । ग्रीष्मवर्षाशरत्स्वेवं मारुतस्य त्रिकक्रमः । निवर्तते रसोऽत्राम्लः शेषा मन्दीभवन्ति च । वर्षास्वम्लविपाकाश्च भवन्त्यापो यतस्ततः॥ वर्षासु चीयते पित्तमृतुशैत्यान्न कुप्यति । सहसार्काशुसम्पर्कात् तद्वै शरदि कुप्यति ॥ शरत्प्रकुपितं पित्तं प्रशमं याति हैमने । वायुश्चोपचयं याति कारणं चात्र वक्ष्यते ॥ निर्वर्त्तते हि मधुरो हेमन्ते रस उत्तमः । शेषा मन्दीभवन्त्यापः स्वादुपाका भवन्ति च ॥ पित्तं शाम्यति तच्छैत्यात् वायुः श्लेष्मा च चीयते । स वायुः शिशिरे कोपं याति चोपचयं कफः ॥ हेमन्ते संचितः श्लेष्मा शिशिरेऽपि न कुप्यति । आहारैश्च गुरुस्निग्धैर्विशेषाञ्चोपचीयते ॥ वसन्ते रविसन्तापात् प्रशमं याति मारुतः । तत्संतापाद्विलीनश्च तदा श्लेष्मा प्रकुप्यति ॥ स वसन्ते प्रकुपितः श्लेष्मा ग्रीष्मे प्रशाम्यति । चीयते चानिलस्तस्मिस्तत्र हेतुं निबोध मे ॥ निर्वर्त्तते रसो ग्रीष्मे कटुको न