________________
चिकित्साकलिका। "ओजः सोमात्मकं स्निग्धं शुक्लं शीतं सरं स्थिरम् । विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्तमम् । देहः सावयवस्तेन व्याप्तो भवति देहिनाम् । इति सुश्रुतः ॥ चरकेऽप्युक्तं-"हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम् । ओजः शरीरे व्याख्यातं तन्नाशान्म्रियते नरः ॥ गुरु शीतं मृदु स्निग्धं बहुलं मधुरं स्थिरम् । प्रसन्नं पिच्छिलं शुक्लमोजो दशगुणं स्मृतम्" ॥ एवं चरकाचार्येण-ईषद्रक्तपीतं शुक्लं च द्विरूपमोजो व्यावर्णितम् । तत्र केचिद् बलमेव ओजस्तेजसी विशेषेण व्यावर्णयन्ति । अपरे तु अविशेषमेवैषां व्यावर्णयन्ति। रसवैशेषिके-“बलं त्रिविधं उत्तमं मध्यमं अधमश्चेति । तत्र उत्तमे बले उत्तमः पुरुषः, मध्ये मध्यमः पुरुषः, अल्पे च अल्पः पुरुषः। तत्र यथाबलं दारुणा मध्यमा मृद्वी च क्रिया कार्या। यदि पुनर्दुर्बलस्य दारुणोव्याधिर्भवति तीक्ष्णेन कर्मणा साध्यः,तदा बलमस्य बृंहयित्वा मृदेव कर्म पुनः पुनः प्रयोक्तव्यं आकृत्स्नादोषहरणात्"। तथा चोक्तम्-'मलोच्छ्रायं बलं विद्यात् मलं प्राणहितं च तत् । तस्माद् यत्नेन हर्तव्यो मलो बलमहिंसता ॥ महान्याधिपरीतस्य बहुदोषस्य देहिनः । बलमाप्याय्य तद्वैद्यः शनैर्दोषमपि क्षिपेत्” । एवं यथाबलः प्रयोग अरोगिताहेतुर्विपर्ययो मिथ्या । चरकाचार्येणापि त्रिविधं बलमुकं सहजं कालकृतं युक्तिकृतं च । तत्र सहजं यच्छरीरसत्वयोः प्राकृतं स्वाभाविकम् । कालकृतं ऋतुविभागजं वयः कृतं च ।युक्तिकृतं पुनस्तधदाहारचेष्टायोगजम् । इत्येवं बलपरीक्षा संक्षेपेणोक्ता ॥ बलपरीक्षानन्तरं कालपरीक्षा आरभ्यते। अथ कोऽयं कालो नाम ? कालः ऋत्वयनवत्सराख्यः । तत्र वैशेषिका द्रव्यं मन्यन्ते । कालः परापरव्यक्तिकरयोगपद्यस्थिरक्षिप्रप्रत्ययलिंग इति । तथा अन्ये न्यायविदः शीतोष्णवर्षसाधारणलक्षणः कालः । उक्तञ्च-"महाभूतविशेषाः स्युः शीतोष्णद्वयभेदतः। कालमित्यध्यवस्यन्ति न्यायमार्गानुसारिणः" । वैयाकरणास्तु क्रियालक्षणं कालं मन्यन्ते । “आदित्यग्रहनक्षत्रप्रस्पन्दिनमतः परे। भिन्नमावृत्तिभेदेन कालं कालविदो विदुः" । इति । तत्र केचिदेवं कालशब्दं व्युत्पादयन्ति । कलानां समूहः कालः । कालशब्दस्य समूहेऽण् इत्यनेन सूत्रेण समूहार्थे अणि रूपम्। अन्ये त्वन्यथा-'काले संख्यापरिमाणयोरित्यस्य धातोर्घञ् प्रत्यये अण् प्रत्यये वा रूपं तस्मात् यनि