________________
चिकित्साकलिका। लक्षणः। साधारणः स्मृतो देशस्तथा व्याधिचिकित्सितम् ॥” सुश्रुतेनाप्युक्तम्-“समाः साधारणे यस्माच्छीतवर्षोष्ममारुताः। समत्वं चैव दोषाणां तस्मात्साधारणो मतः।” इति संक्षेपेणोक्ता देशपरीक्षा ॥ भूम्यातुगै प्रदेश इत्युक्तं पूर्वमतः भूमिपरीक्षानन्तरं आतुरपरीक्षा आरभ्यते । “आतुरमुपक्रममाणेन भिषजा आयुरेवादौ परीक्ष्यमिति” सुश्रुतः। रसवैशेषिके चोक्तम्-'आयुः पुनरादौ परीक्ष्यम्। सति तस्मिन् क्रियायाः साफल्यम्। तच्चायुः जीवितं प्राणादिसंयोगपूर्वकमिति वदन्त्याम्नायविदः' । तथा च चरकः-"शरीरेन्द्रियसत्वात्मसंयोगो धारि जीवितम् । नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते । सत्वमात्मा शरीरं च त्रयमेतत्त्रिदण्डवत् । लोकस्तिष्ठति संयोगात् तत्र सर्व प्रतिष्ठितम् ॥" सुश्रुतेनाप्युक्तम्- "अग्निः सोमो वायुः सत्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः” । तच्छकुननिमित्तलक्षणादेव रिष्टानि विद्यात् तानि स्वशास्त्रेभ्यो ज्ञातव्यानि । चक्षुष्येणेनाप्युक्तम्-'रोगिणः कायदेशस्य संपरीक्ष्य बलायुषी। पूर्व बलानुरूपं स्यादुपचारोऽनुबन्धनमिति । ज्ञेयमरिष्टैरायुरित्यादि । त्रिविधं शरीरमल्पं मध्यं सुमहच्च संपरी• क्ष्यादौ । कुर्याद् विवृद्धिहासौ भैषज्याहारयोविधि मध्यम् । सुश्रुतेऽप्युक्तम्-'देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टम् । कर्षयेद्हयेच्चापि सदा स्थूलकृशौ नरौ। रक्षणं चैव मध्यस्य कुर्वीत सततं भिषक् ॥' इति संक्षेपेणोक्ता आतुरपरीक्षा ॥ आतुरपरीक्षानन्तरं बलपरीक्षाधिक्रियतेतथा चोक्तं सुश्रतेन-“यस्माद्बलवतः सर्वक्रियाप्रवृत्तिः तस्मादलमेवप्रधानमधिकरणानाम् । केचित्कृशाः प्राणवन्तःस्थूलाश्चाल्पबला नराः। तस्मात् स्थिरत्वव्यायामैर्बलं वैद्यः प्रतयेत् ॥” तच्च बलं किमुच्यते ? बलमोजस्तेज इति त्रिविधम् । तत्र रसादीनां शुक्रान्तानां धातूनां यत्परं तेजस्तत्खल्वोजस्तदेव बलमित्युच्यते स्वशास्त्रसिद्धान्तात्। तत्र बलेन स्थिरोपचितमांसता, सर्वचेष्टास्वप्रतिघातः, स्वरवर्णप्रसादो बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति । अथ किमिदं तेजः-तेजोऽप्याग्नेयं क्रमशः पच्यमानानां धातूनामभिनिवृत्तमुदरस्थं मेहजातं वसाख्यं स्त्रीणां विशेषतो भवति । तेन माईवसौकुमार्यमृद्वल्परोमतोत्साहदृष्टिस्थितिपक्तिकान्तिदप्तियो भवन्ति ॥ अथौजः किमुच्यते