________________
चिकित्साकलिका। शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः । विपरीतगुणैव्यैर्मारुतः संप्रशाम्यति ॥” समेहमुष्णं तीक्ष्णं च द्रवमम्लं सरं कटु । विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति ॥ गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः । श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः" ॥ तत्र वातपित्तश्लेष्माणः शारीरा दोषाः । मानसौ च रजस्तमसी। तेषां च गतिरनेकप्रकारा। चरकेणोक्तं-क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिः । ऊर्ध्व चाधश्च तिर्यक् च विशेया त्रिविधापरा ॥ त्रिविधा चापरा कोष्ठशाखामर्मास्थिसन्धिषु । इत्युक्ता विधिभेदेन दोषाणां त्रिविधा गतिः॥ दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम् । क्षीणा जहति लिङ्गं स्वं समाः स्वं कर्म कुर्वते ॥” ते च किं प्रकृतिस्थाः ? किं वा प्रकुपिताश्च ? किं वा स्वतन्त्राः परतन्त्रा वा ? यथा--'एकः प्रकुपितो दोषः सर्वानेव प्रकोपयेदिति ॥' किमेको द्विशस्त्रिशो वा ? किं रसादिधातुसहिता असहिता वा ? किं वातविण्मूत्रादिमलैः संमिश्रा असंमिश्रा वा ? किमेकद्वित्र्यंशबलविकल्पादिना प्रकारेण ? एवं बहुविधा वीक्ष्यमाणा असंख्येयतां 'प्रतिपद्यन्त इत्युपगम्यते। इति संक्षेपेणोक्ता दोषपरीक्षा ॥ दोषपरीक्षानन्तरं प्रदेशपरीक्षारभ्यते -प्रदेशशब्देन भूम्यातुरावुच्यते । तथा चोक्तं चक्षुष्येणेन - "भूम्यातुरौ प्रदेश" इति । भूमिं देशं विद्यात् । स त्रिविधःआनूपो जांगलो मिश्रः। अहितो हितः समश्च । प्रचक्ष्यते लक्षणं तस्य'नदीपल्बलशैलाद्यैः पत्रोत्पलझषैर्युतः । हंससारसकादम्बबलाका. द्विजसेवितः ॥ वराहखड्नमहिषरुरुरोहितसंकुलः । प्रभूतद्रुमपुष्पाद्यो नानासस्यफलैश्चितः ॥ अनेकशालिकेदारकदलीधुविभूषितः । आनूपदेशो भूयिष्ठं वातश्लेष्मामयार्त्तिमान् ॥ अल्पाग्न्यायुर्बलाः स्थूलाश्चलन्मेदःस्तनोदराः । नराः प्रायेण तस्मात्तैरनपानं सुखार्थिभिः॥अनभिष्यन्दि रूक्षाल्पं सेव्यं लध्वग्निदीपनम् । आकाशशुभ्रः सिकतास्थलो विषमभू. तलः ॥ शमीकरीरबिल्वार्कपीलुकधुसंकुलः ॥ मृगपृषतगोकर्णखरबभ्रसमन्वितः । वर्षतोयाल्पसलिलो देशो जाङ्गलमुच्यते ॥ तत्राल्पमेदःप्राचुर्याः स्थिरा जितपरिश्रमाः ॥ सुसंहतसमांगाश्च बलिनोऽल्परुजो नराः ॥ आयुष्मन्तोऽनिलप्राया रोगास्तेषामिदं हितम् । बृंहणं गुरु यत् निग्धमन्नपानद्रवं नवम् ॥ आनूपजांगलाभ्यां च देशो व्यामिश्रः