SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ चिकित्साकालिका। सिद्धयन्ति ये यत्नवतां कथञ्चित् ते कर्मदोषप्रभवा विकाराः ॥ १५ ॥ ते विकाराः कर्मदोषप्रभवाः ये यत्नवतां प्रयत्नवतां कथञ्चित् कष्टकल्पनया सिद्धयन्ति । कथं ? कर्मक्षये प्राक्तनाशुभहानौ। कैः ? दानादिभिः कर्मभिरिति, दानदयाब्राह्मणदेवगुरुगोपूजाप्रणामजपतपक्रियादिभिः । दोषपरिक्षये च । दोषपरिक्षयो वृद्धह्रींसं कृत्वा साम्योत्पादनम् । काभिः ? औषधीभिः स्थावरजङ्गमाभिः । त इत्थम्भूताः कर्मदोषप्रभवा विकाराः। कर्माणि च दोषाश्च कर्मदोषाः, कर्मदोषाभ्यां प्रभव उद्भवो येषां ते कर्मदोषप्रभवा विकारा इति ॥ १५॥ । दान जप आदि श्रेष्ठ कमों के द्वारा पूर्वजन्म कृत अशुभ कर्मों के क्षीण होजाने पर तथा औषध प्रयोगों से दुष्ट वात आदि दोषों के शान्त होजाने पर जो व्याधियां बड़े प्रयत्न से कथञ्चित् सिद्ध होती हैं. वे कर्मदोषज जाननी चाहिये । . प्रागुक्तं ते दोषजा भेषजशुद्धिसाध्याः । भेषजशुद्धिसाध्यत्वं विकाराणां परीक्षितैर्दोषादिभिर्भवतीति दोषादिपरीक्षणार्थमाह दोषप्रदेशबलकालविकारसत्वसात्म्यौषधानलवयः प्रकृतीः परीक्ष्य । नानाप्रकारपवनादिगदातुराणा मुक्तं चिकित्सितमिदं न तु कर्मजानाम् ॥ १६ ॥ . इदं चिकित्सितं पवनादिभिर्वातपित्तकफसत्वरजस्तमोभिः शरीरमनोऽधिष्ठितैराश्रयभेदेन, अन्योन्यसंसर्गेण च सन्निपातादिना वा नानाप्रकारैरसंख्येयत्वात् । ये ये गदा रोगास्तैः आतुराणामार्त्तानामुपकाराय कथितम् । नानाप्रकारपवनादिगदातुराणां वक्ष्यमाणन्यायेन उक्तं इति क्रिया। किं कृत्वा? परीक्ष्य। कान् ? दोषान् । अतो दोषा एवादौ परीक्ष्यन्ते तत्कारणत्वात् सर्वरोगाणाम् । तथा चोक्तं सुश्रुताचार्येण"नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः । अनुक्तमपि दोषाणां लिङ्गाधिमुपाचरेत्" ॥ तत्र वा गतिगन्धनयोरिति धातुः । तपधूपसन्ताने । श्लिष् आलिङ्गने । एतेषां कृद्विहितैः प्रत्ययैः परे वातः पित्तं प्लेष्मेति रूपाणि भवन्ति । एषाञ्च स्वरूपं चरकाचार्येणोक्तम्-“लक्षः
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy