________________
चिकित्साकलिका। प्रागुक्तं दोषर्विकारा भवन्तीति । किं भूतैर्दोषैरित्यत आह
स्वहेतुदुष्टैरनिलादिदोषैरुपप्लुतैः खेषु परिस्खलद्भिः । भवन्ति ये प्राणभृतां विकारा
स्ते दोषजा भेषजशुद्धिसाध्याः ॥ १४ ॥ . दोषजा विकारा येऽनिलादिदोषैर्भवन्ति । तैः कीदृशैः ? स्वहेतुदुष्टैः स्वकीयाश्च ते हेतवश्व स्वहेतवः तैर्दुष्टाः स्वहेतुदुष्टाः अनिलादयस्तैः। स्वहेतवः स्वकारणानि वक्ष्यमाणानि । तत्र वातस्य रूक्षतिक्तकषायादीनि । पित्तस्य कट्वम्लोष्णविदाह्यादीनि । श्लेष्मणो गुरुमधुरशीतादीनि । दुष्टग्रहणेन संचयप्रकोपावुतौ । अनिलादिदोषैर्वातपित्तकफैः शारीरैः, रजस्तमोभ्यां च मानसाभ्यां दोषाभ्याम् । तथा च चरकः"वातः पित्तं कफश्वोक्तः शारीरो दोषसंग्रहः ।मानसः पुनरुद्दिष्टो रजश्च तम एव च ॥ उपप्लुतैर्विमार्गगैः प्रसृतरित्यर्थः । खेषु छिद्रेषु परिस्खलद्भिः स्थानसङ्गं कुर्वद्भिः । इत्यनेन स्थानसंश्रय उक्तः । प्राणभृतां प्राणिनां विकारा इत्यनेन व्यक्तिभेदौ दोषाणां दर्शितौ। इत्येवं संचयप्रकोपप्रसरस्थानसंश्रयव्यक्तिभेदैर्दोषाणां ये भवन्ति ते दोषजा विकारा इति । तथा चोक्तं सुश्रतेन-"संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम् । व्यक्तिभेदं च दोषाणां यो वेत्ति स भवद्भिषक् ॥ कुपितानां हि दोषाणां शरीरे परिधावताम् । यत्र संगः खवैगुण्याद् व्याधिस्तत्रोपजायते"॥ तेच दोषजा भेषजशुद्धिसाध्याः। भेषजैरौषधैः संशमनादिभिः शुद्धया च वमनविरेचनानुवासननिरूहनस्यैर्निर्हरणं दोषाणां शुद्धिः, तया साध्या साधनीया इति ॥ १४॥ ... अपने २ दूषक कारणों से दुष्ट तथा स्वमार्ग से हटे हुए वात आदि दोष जब किसी स्रोत में आश्रय पाते हैं तब पुरुषों में जो नानाविध विकार पैदा होते हैं वे दोषज कहलाते हैं । उनकी संशमन औषधों तथा वमन विरेचन आदि संशाधनों द्वारा चिकित्सा की जाती है ॥ १४ ॥ पूर्वमुक्तमपरे कर्मदोषजा विकारास्तान् प्रतिपादयन्नाह
दानादिभिः कर्मभिरोषधीभिः कर्मक्षये दोषपरिक्षये च ।