________________
२४५
कौमारतन्त्रम् । दलं पत्रकम् । मुरा गन्धवती। प्रचण्डा तस्करीअजमोदानुकारी। द्रव्यापहश्चोरकः। सुरसः तुलसी । कुन्दुरुः शल्लकीनिर्यासः। कुष्ठं रुक् । ध्यामकं कत्तणमिति ॥ ३७६-३७७ ॥ - इति तीसटसुत-चन्द्रटविरचितायां चिकित्साकलिकाटीकायां
भूतविद्यातन्त्रं समाप्तम्। विजयधूप-शैलेय (छैलछरीला), भैंसा गूगल, तेजपत्र, मुरामांसी, चण्डा, चोरक, तुलसी, कुन्दुरु, कुष्ठ, ध्यामक (गन्धतृण), गन्धरस (बोल)। इनका धूप सौभाग्यकारी तथा वादविवाद में विजय का देने वाला है । यह देव, असुर, उरग (सर्प), पिशाच, पितृग्रह, गन्धर्व, यक्ष, पिशिताश ( राक्षस) तथा स्कन्द आदि बालग्रहों को निवृत्त करता है यह धूप जीर्णज्वर तथा विषपीड़ितों के लिये प्रशस्त है । संग्राम में विजय चाहने वाले राजाओं को इसका धूपन करना चाहिये ॥३७६-३७७ ॥
अथ कौमारतन्त्रम् । भूतविद्यानन्तरं यथोद्देशं कौमारतन्त्रारम्भः
कौमारभृत्यमितिकोऽर्थः ? उच्यते। कुमाराणां भृतिः कुमारभृतिः एतत्प्रधानं कौमारभृत्यम् । तथा च सुश्रुतः- 'कौमारभृत्यं कौमारभरणधात्रीक्षीरदोषसंशोधनार्थ दुष्टस्तन्यसमुत्थानां च व्याधीनामुपशर्मार्थमिति ॥ दुष्टस्तन्यरोगोपशमार्थमित्युक्तं ते च रोगा अतीसाराक्षिरोगच्छादयः । अतस्तेषामुपशमार्थमिदमाहरोधवारणाकणे सबालके धातकीकुसुमबिल्वसंयुते । काथलेहविधिनातिसारक बालके हिततमे समाक्षिके ॥ ३७८ ॥
रोधं च वारणकणा हस्तिपिप्पली सा च रोध्रवारणकणे । सहबालकेनवर्तेते इति सबालके । धातकीकुसुमंच बिल्वं च धातकीकुसुमबिल्वे । ताभ्यां संयुते संयुक्त रोध्रवारणकणे अतिसारके बालकेऽतिसारिणि शिशौ अतीसारातुरे हिततमे अतिशयेन हिते हिततमे । केन ? काथलेहविधिना समाक्षिके मधुसंयुक्त। एतदुक्तं भवति एषां पञ्चानां द्रव्याणां पलं षोडशभिः सलिलपलैः क्वाथं कृत्वा चतुर्थाशं शीतं मधुकर्षयुतं धात्रीकुमाराभ्यां पातव्यमिति । अयं क्वाथविधिः लेहविधिश्च सर्वेषां चूर्णकर्ष मधुनावलेहयेत् द्वाभ्यामिति ॥ ३७८ ॥