________________
२४४
चिकित्साकलिका |
के बीज प्रत्येक आधा पल । यथा विधि सिद्ध करें । यह घृत मूक, जड ( मूर्ख, मेधारहित ) तथा गद्गद पुरुषों के लिये पथ्य है । मात्रा–आधा तोला ॥ ३७४ ॥ अधुना दशाङ्गधूपमाह -
रुक्शल्लकीगुग्गुलुचोरकोग्राप्रियङ्गुदेवद्रुमकुन्दुरूणि । मुराह्वयं धूपवरो दशाङ्गः सौभाग्यकारी भृगुजोपदिष्टः ||३७५॥
दश अङ्गानि यस्य स दशाङ्गः । अंगान्यस्य दश द्रव्याणि रुगादीनि रुक् कुष्ठम् । शल्लकी सिलारसस्य खलः । गुग्गुलुर्महिषाख्यः । चोरकस्तस्करो ग्रन्थिपर्णानुकारी । उग्रा वचा । प्रियङ्गुः फलिनी । देवद्रुमो देवदारुः । कुन्दुरुः शल्लकीनिर्यासः । मुराह्वयं मुरामांसी । धूपवरः धूपेषु मध्ये यः वरः श्रेष्ठः । सौभाग्यं करोतीति सौभाग्यकारी । भृगुजः शुक्रस्तेनोपदिष्टः कथित इति ॥ ३७५ ॥
दशांगधूप — कुठ, शल्लकी, गुग्गुलु, चोरक, वच, प्रियंगुः देवदारु, कुन्दुरु, मुरामांसी, धूपवर (श्रीवेष्टक, गन्दाबिरोजा ), इन दस द्रव्यों का धूप सौभाग्यकर है। इस धूप का शुक्राचार्य ने उपदेश किया है ॥ ३७५ ॥ दशाङ्गधूपानन्तरं विजयधूपमाह - शैलेयगुग्गुलैः समुराप्रचण्डाद्रव्यापहृत्सुरसकुन्दुरुभिः सकुष्ठैः । सध्याम कैरिति सगन्धरसैश्च धूपः सौभाग्यकृद्विजयकृच्च मतो विवादे ॥ ३७६ ॥
देवासुरोर गपिशाचपितृग्रहेषु गन्धर्वयक्षपिशिताशशिशुग्रहेषु । जीर्णज्वरेषु विहितः सविषातुरेषुधूपोऽयमाजिविजयार्थिषु पार्थिवेषु ॥ ३७७ ॥
एभिः शैलेयकादिभिविर्जयो नाम धूपः । सौभाग्यं करोतीति सौभाग्यकृद्भवति । विजयकृश्च विवादे झगटके विजयं करोतीति । अयं च धूपो । विदेहादिभिर्ग्रहेषु च विहितः । उरगाः सर्पाः पिशिताशा राक्षसाः । शिशुग्रहाः स्कन्दादयो बालग्रहाः । पार्थिवेषु च नृपेषु । आज संग्रामे विजयार्थिषु विहितः । शैलेयं शैलजम् । गुग्गुलुर्महिषाक्षः।