________________
भूतविद्या ।
२३९ पस्मारः तं हन्तीति अपस्मृतिघ्नं स्यात् भवेत् । सिद्धार्थकाः सर्षपाः । त्रिकटु व्योषम् | क्षपा हरिद्रा तस्या युगं हरिद्राद्वयम् । एतेन हरिद्रादारुहरिद्रे | वचा उग्रा । मञ्जिष्ठिका रक्ता । रामठं हिंगु । श्वेताहं श्वेतस्यन्दा | त्रिफला पूर्वोक्ता । करअं वृक्षकरञ्जबीजानि । कटभी शालिपर्णी । श्यामा प्रियंगुः । शिरीषः सरसः । अमरं देवदारु । वा शब्दो योगान्तरं कथयति । बस्तमूत्रेण वा पिष्ट्रा पीतोऽगदः उन्मादघ्नमपस्मृतिघ्नमिति । बस्तः छागः । नास्मिन् गदो विद्यत इत्यगद् इति ॥ ३६५ ॥
सिद्धार्थक घृत - गव्यघृत २ प्रस्थ । गोमूत्र ८ प्रस्थ । कल्कार्थ - श्वेतसरसों, त्रिकटु, हल्दी, दारहल्दी, वच, मञ्जिष्ठा, हींग, श्वेत अपराजिता, त्रिफला, वृक्ष करञ्ज के बीज, शालपर्णी, प्रियङ्गु, सिरस के बीज, देवदारु; प्रत्येक १ कर्ष ( २ तोले ) । यथाविधि पाक करें । यह घृत पान तथा नस्य द्वारा उन्माद तथा अपस्मार को नष्ट करता है । वृद्ध वाग्भट में कल्क द्रव्यों में निम्बपत्र का पाठ अधिक है । इन्हीं कल्कोक्त द्रव्यों के चूर्ण को बकरी के मूत्र में पीसकर पान, नस्य, अञ्जन, लेप, स्नान तथा घर्षण द्वारा प्रयोग कराने से उन्माद; अपस्मार आदि रोग तथा अन्य भूतावेश जनित उपद्रव नष्ट होते हैं ॥ ३६५॥
सिद्धार्थकघृतानन्तरं कल्याणकघृतमाहतालीसत्रिफलैलवालुफलिनी सौम्यापृथक्पर्णिनीदन्तीदाडिमदारुचन्दनानेशादार्वीविशालोत्पलैः । जाती पुष्पहरेणुपद्मकयुतैर्जन्तुन्नमञ्जिष्ठिकारुक्सिंही त्रुटिसारिवाद्वयन तैर्नागेन्द्रपुष्पान्वितैः ।। ३६६ ।। अष्टाविंशतिभिश्चतुर्गुणजलं कल्याणमेभिः शृतं हन्त्येतत्त्रिचतुर्थकं ज्वरमुरःकम्पं सवन्ध्यामयम् । सापस्मारगरोदराः सपवनोन्मादाः सजीर्णज्वराः
जायन्ते न पुनः कृतेन हविषा कल्याणकेनामुना || ३६७|| पभिरष्टाविंशतिभिः कार्षिकैस्तालीसादिभिर्धृतप्रस्थं चतुर्गुणजलं शृतं एतत् त्रिचतुर्थकादीन् हन्ति । तालीसं तालीसपत्रम् | त्रिफला पूर्वोक्ता । एलवालुकं प्रसिद्धम् । फलिनी प्रियंगुः । सौम्या शालिपर्णी । पृथक्पर्णिनी पृश्निपर्णी । दन्ती निकुम्भः । दाडिमं दाडिमसारः । दारु देवदारु | चन्दनं रक्तचन्दनम् । निशा हरिद्रा । दार्वी दारु