________________
चिकित्साकलिका। आक्षेपकापतानकातिप्रभृतयः। श्चित्रं किलालम् । क्षयः शोषः। क्षणदान्धता राज्यन्धत्वम् । तिमिरं दृष्टिविनाशः । वदनघ्राणालि मुखनाला. दुर्नामानि । श्वयथुः सर्वसरः शोफः । अपचीव्रणो गण्डमालावणः । वल्मीको वल्मीकाकारो ग्रन्थिबहुव्रणः। काकणकं काकणन्तिकाकारं महाकुष्ठम् । शंखकः शिरोरोगः । पुण्डरीकं पद्मवर्ण महाकुष्ठम् । रक्तार्बुद रक्तस्रावि मांसपिण्डम् । व्रणविसर्पः क्षतविसर्पः । वपुःप्रकम्पः सर्वशरीरचलनम् । पक्षाभिघातः पक्षवधः । गलगण्डो गले मुष्काकारः श्वयथुः । गलग्रहो गले अन्नपाननिरोधः । दण्डापतानको दण्डवत् स्तम्भः । समीरणशोणितं वातरक्तम् । आदिग्रहणेन सन्निपातविलम्बिकाहिका श्वासकासातिसाराश्मरीमूढगर्भादीनां ग्रहणम् । इत्यामयाः स्युरिति । इति शब्दः पूर्वोक्तादीनां परामर्शकः । आमया रोगाः स्युर्भवेयुः । दुःकर्मभिः पापकर्मभिः। कैः ? अपरद्रविणापहारगुर्वङ्गनागमनविप्रवधादिभिः । अपरद्रविणापहारः परस्वहरणम् । गुर्वङ्गनागमनं गुरुपत्नीविध्वंसः । विप्रवधो ब्राह्मणवधः। आदिग्रहणेन पञ्चमहापातकोपपातकानि गृह्यन्ते । एभिर्दुःकर्मभिस्तनुभृतां शरीरभृतां ये रोगाः संभवन्तीह लोके ते कर्मजाः । नोपक्रमेण भिषजामुपयान्ति सिद्धिम् । . भिषजां वैद्यानां संशोधनसंशमनादिना क्रिययोपक्रमेण युक्तिव्यपाश्रयेण नो सिद्धिं न साध्यत्वमुपयान्ति प्राप्नुवन्तीति । कर्मजत्वं चैषां दृष्ट्वा शास्त्रान्तरेषु तीसटाचार्येण चोक्तम् । तथा च तन्त्रान्तरम्-"अकृत्वा पावनं ये तु प्राप्तवन्तोऽन्तकक्षयम् । तेषां कर्मानुसारेण व्याधिः समुपजायते ॥ कृत्वार्द्धमथ पादं वा किञ्चिन्यूनमथापि वा। साध्यासाध्यास्तथा याप्या आमयाः संभवन्ति हि ॥ महान्ति यानि कर्माणि विशालं तेषु कीर्तितम् । लघुन्येनसि चोद्दिष्टं प्रायश्चित्तमविस्तरम् ॥ ब्रह्मसजननारीणां वधाचौ-दभक्ष्यतः। अगम्यागमनात्पुंसां संयोगात्तैः पृथक् पृथक् ॥ महान्ति पातकान्याहुदृष्टादृष्टविशारदाः । पुनर्जन्मान्तरग्राहि फलं तेषां प्रकीर्तितम् ॥ उपभोगात् क्षयस्तस्य नान्यथा संप्रकीर्तितः । चिकित्सका वदन्त्येके धर्मशास्त्रविदो जनाः । तस्माञ्चिकित्सितं कार्य जन्मान्तरविशुद्धये ॥ कुष्ठादिषु वदन्त्येके भूयो जातेऽपि संभवः । कुष्ठमेहोदरश्चित्रक्षयोन्मादभगन्दराः ॥ अन्येऽपि दुर्निवाराः स्युायो