________________
चिकित्साकलिका। किंचित् फलं यस्य न भुज्यते । भूयस्ते कर्मजा रोगाः प्रशमं यान्ति तत्क्षणात्" ॥ तथा च सुश्रुतेप्युक्तम्-“कर्मजा व्याधयः केचित् दोषजाः सन्ति चापरे । कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः" । इत्यादि ।
शारीर तथा मानस रोगों में से कदाचित् कोई रोग कर्मविपाक के कारण, कोई दोषप्रकोप से, तथा कोई कर्म तथा दोष दोनों के प्रकोप से पुरुषों में उत्पन्न हुआ करता है. ॥९॥
। कर्मप्रकोपेण भवन्तीत्युक्तं प्राक् । केवलं कर्मप्रकोपेण भवन्तिये तान् विकारानाह
जठरगुदजोन्मादापस्मृत्यसृस्रुतिपङ्गुता श्रतिविकलता वाग्वैकल्यप्रमेहभगन्दराः । प्रदरपवनव्याधिश्वित्रक्षयक्षणदान्धता तिमिरवदनघ्राणाासि श्वयथ्वपचीव्रणाः ॥१०॥ वल्मीककाकणकशंखकपुण्डरीकरक्ताबुंदव्रणविसर्पवपुःप्रकम्पाः । पक्षाभिघातगलगण्डगलग्रहाश्च दण्डापतानकसमीरणशोणिताद्याः ॥ ११ ॥ इत्यामयाः स्युरपरे द्रविणापहारगुर्वङ्गनागमनविप्रवधादिभिर्ये । दुःकर्मभिस्तनुभृतामिह कर्मजास्ते
नोपक्रमेण भिषजामुपयान्ति सिद्धिम् ॥ १२ ॥ इह ते कर्मजा रोगाः ये दुःकर्मभिस्तनुभृतां जठरादयो भवन्ति । जठरादीनामितरेतरद्वन्द्वसमासः । जठरमुदरम् । गुइजान्यासि । उन्मादो मनोविप्लुतिः । अपस्मृतिरपस्मारः । असृक्नुतिः रक्तपित्तम् । पङ्गता सक्श्नोर्बन्धः । श्रतिविकलता बाधिर्यम् । वाग्वैकल्यं मूकत्वम् । प्रमेहः प्रकर्षेण मूत्रक्षरणं तदाविलता च । भगन्दरो गुदाभ्यासे व्रणः। प्रदरः स्त्रिया अनृतावपि आर्त्तवप्रवृत्तिः । पवनव्याधयो महावातरोगाः