________________
१०
चिकित्साकलिका |
धन
णाम् । चिरकालजाश्च चिरं दीर्घकालं जाताः दीर्घकालजाः । सोपद्रवाः ये सहोपद्रवैर्ज्वरादिभिर्वर्त्तन्ते इति सोपद्रवाः । च्युतधनस्य ये रहितस्य गताग्नेर्विनष्टाने ते सर्वे गदा गदवतां रोगवतां उग्रास्तीक्ष्णा मारणात्मकत्वात् | अगदैराषधैरगम्या न साघनीया भवन्तीति ॥ ८ ॥
जो रोग अदृष्टवश उत्पन्न हुए हों, सहज हों, त्रिदोषज हों, पुरातन हो अथवा उपद्रवों से युक्त हों तो निर्धन तथा मन्दाग्नियुक्त पुरुष के लिये वे रोग असाध्य होते हैं, अर्थात् उन रोगों की चिकित्सा नहीं हो सकती ॥ ८ ॥
एवं साध्ययाप्यप्रत्याख्येयद्वारेण त्रैविध्यं प्रतिपाद्येदानीं दैवपुरुषकारौ पृथक्संयुक्त जनकौ सर्वव्याधीनामित्यनेन प्रपञ्चेनापरत्रैविध्यप्रतिपादनायेदमवोचत
कर्मप्रकोपेण कदाचिदेके दोषप्रकोपेण भवन्ति चान्ये । तथापरे प्राणिषु कर्मदोष
प्रकोपजाः कायमनोविकाराः ॥ ६ ॥
एके कायमनोविकाराः कर्मप्रकोपेण भवन्ति । अथ किमिदं कर्म तस्य च प्रकोपः कीदृक् ? तदुच्यते-अन्यजन्मकृता क्रिया देवाख्या कर्मेत्युच्यते । तस्य कर्मणः प्रकोपः कर्मप्रकोपः स्वपाकफलोदर्कता । इत्थम्भूतेन कर्मप्रकोपेण कदाचित् कस्मिंश्चित्काले भवन्ति । न केवलं कर्मप्रकोपेण दोषप्रकोपेण भवन्त्यन्ये । दोषाणां वातादीनां पुरुषकारजनितमिथ्याहारविहाराभ्यां प्रकोपः । प्रकोपशब्देन विलयनरूपा वृद्धिर्दोषाणामुच्यते । अन्ये पूर्वस्माद्विलक्षणा रोगा दोषप्रकोपेण भवन्ति । तथापरे प्राणिषु कर्मदोषप्रकोपजा विकारा भवन्ति । अपरे अन्ये प्राणिषु कर्मपुरुषेषु कर्मदोषप्रकोपजाः, यदा कर्मदोषौ समौ प्रकुप्यतः तदा काये मनसि च विकाराः पूर्वोक्ताः सर्वे भवन्ति । तथा च चरकः-“दैवमात्मकृतं विद्यात्कर्म यत्पौर्वदैहिकम्। स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ॥ बलाबलविशेषोऽस्ति तयोरपि च कर्मणोः ॥ दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम् ॥ दैवं पुरुषकारेण दुर्बलं
पहन्यते । देवेन चेतरत्कर्म विशिष्टेनोपहन्यते ॥ निर्दिष्टं दैवशब्देन कर्म यत्पौर्वदेहिकम्। हेतुस्तदपि कालेन रोगाणामुपलभ्यते ॥ नहि कर्म मतं