________________
२१८
चिकित्साकलिका। इदानीं शोणितमोक्षाद्याः केषु च रोगेषु कैरुपायैः क्रियत इति तदाह
दद्रषु विद्रधिषु गुल्मिषु च व्रणेषु मकल्लपिल्लगलगण्डकिलासवत्सु । पायुप्रमेहपिटकासु विसर्पवत्सु वामयेषु च कपालविकारवत्सु ॥ ३२६ ॥ सश्लीपदे वृद्ध्युपदंशशोफे शूकप्रदोषरजि तालुगलामयेषु । क्षुद्रामयेषु च कियत्स्वपि शोणितस्य
मोक्षः शिराभिरथ तुम्बविषाणकैर्वा ॥ ३२७ ॥ ___ दविद्रध्यादिषु शोणितस्य मोक्षः कर्त्तव्य इति वाक्यशेषः । कैरुपायैः ? सिरादिभिः सिरामोक्षैः । अथेति कंचिदुपायान्तरं दर्शयति तुम्बेरलाबुभिः श्लेष्मदुष्टरक्ते । विषाणैः शृङ्गैर्वातदुष्टरक्ते । मकलं प्रजातायाः स्त्रियाः अशोधितरक्तायाः कोष्ठे भवति। पिल्लं पिञ्चटरोगः। तच्च द्विविधम् । प्रक्लिन्नवर्त्म अपरिक्लिन्नवम॑ च । ननु च सुश्रुताचार्येण द्वयोरपि शस्त्रपातनं निषिद्धम् । तथा सुश्रुतः- 'अक्लिन्नवम॑हुतभुक् ध्वजदर्शिशुक्तिप्रक्लिन्नवर्त्मसु तथैव बलाससंज्ञे। आगन्तुनामययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति वैद्या इति । तत् कथं रक्तमोक्षः क्रियते-इत्याह वृद्धपरम्परया तावद्रक्तमोक्षः चक्षुष्येणाभिप्रायात्ती. सटाचार्येणोक्तः । तथा च चक्षुष्येणः- "पिल्लौ द्वौ तु विनिर्दिष्टौ क्लिन्नाक्लिन्नौ तु वर्त्मजौ । अक्लिन्नवर्त्म कफजः क्लिनवम त्रिदोषजः। तयोः सामान्यतश्चैव पृथक्त्वेन तु भेषजम् । प्रत्यवस्थं प्रतीकारं कीर्त्यमानं निबोधत । कायस्य शिरसश्चैव विरेको रक्तमोक्षणम् । विशदान्यन्नपानानि यवानविकृतीस्तथा।" इत्यादि । किलासं श्वित्रम् । पायुर्गुदं तस्मिन् पिटिका भगन्दराख्याः । स च प्रमेहपिडकाश्च सराविकाद्याः तास्तथा तासु । उत्सङ्गिन्यादयो वामयाः। कुचौ स्तनौ । कपालं शिरः । कुचकपालं तस्मिन्विकारा विद्यन्ते येषां ते कुचकपालविकार