________________
शल्यतन्त्रम्।
२१७ अभ्यङ्गात् शिरसि बस्तिविधारणैः शिरोबस्तिभिश्च । इति शिरोरोगचिकित्सा समाप्ता ॥ ३२४ ॥ इति तीसटसुतचन्द्रटविरचितायां चिकित्साकलिकाटीकायां
शालाक्यतन्त्रं द्वितीयं समाप्तम् ॥ । तिलतैल २ प्रस्थ । भांगरे का रस ८ प्रस्थ । कल्कार्थ-त्रिफला तथा मुलहठी; प्रत्येक एक २ पल । यथाविधि पाक कर नस्य, अभ्यंग तथा शिरोबस्ति द्वारा प्रयोग करने से पलित नष्ट होता है ॥ ३२४ ॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां परिमलाख्यायां चिकित्साकलिकाव्याख्यायां
शालाक्यतन्त्रं समाप्तम् ।
--::--
अथ शल्यतन्त्रम् । शालाक्यतन्त्रानन्तरं यथोद्देशं शल्यतन्त्रारम्भः-शल्यहरणप्रधानत्वात् तन्त्रं शल्यतन्त्रम् । शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। तञ्च शल्यं विविधतृणकाष्ठपाषाणपांसुलोहलोष्ट्रास्थिवालनखपूयात्रावान्तर्गतशल्योद्धरणार्थ यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थ च । तानि च क्षाराग्निशस्त्राणिकेषु रोगेषु विधीयन्ते । इत्याह
वल्मीकिनां जतुमणौ मशकेष्वपच्यामझेविकारिषु भगन्दरिणां व्रणेषु । ग्रन्थ्यर्बुदश्वयथुरुतिलकालकेषु
क्षाराग्निशस्त्रपतनानि वदन्ति वैद्याः ॥ ३२५ ॥ वल्मीकादिषु रोगेषु वैद्याः क्षाराग्निशस्त्रपतनानि वदन्ति । क्षारश्च अग्निश्च शस्त्रं च क्षाराग्निशस्त्राणि तेषां पतनान्यवचारणानि । वल्मीकादयो रोगाः प्रसिद्धाः। तेषां स्वे स्वे विकारे विस्तरतः क्षाराग्नि शस्त्रपतनानि सुश्रुतादिभिरुक्तानि जानीयात् । तानि न ग्रन्थविस्तरभयादत्र लिख्यन्त इति ॥ ३२५ ॥ ___वल्मीक, जतुमणि, मशक (मस्से ), अपची, अर्श, भगन्दर, ग्रन्थि, अर्बुद, शोथ, तिलकालका प्रभृति रोगों की क्षार, अग्नि तथा शस्त्र द्वारा सुश्रुत आदि के अनुसार यथाविधान चिकित्सा की जाती है ॥ ३२५ ॥