________________
कर्णरोगचिकित्सा।
२११ तैलं कालिकादिश्तं कर्णशूलापहम् । काञ्जिकं च बीजपूरकरसश्च क्षौद्रं च तानि तथा तैः सशुक्तैः शुक्तयुक्तैः। चतुर्भिः समैस्तिलतैलं पक्कं कर्णशूलापहं भवतीति । क्षौद्रादिभिः शृतं कर्णशूलापहं स्यात् । श्रौद्रं च आर्द्रकञ्च शिग्रुः शोभाजनकस्तस्य मूलं च कदलीकन्दश्च तेषां द्रवाः स्वरसास्तैस्तैलसमैर्वा । अथेति पूर्व तैलानन्तरंशुण्ठ्यादिशृतं सलिलचतुर्गुणं तैल कर्ण शूलापहं स्यात् । तैलं बिल्वगिरेण सिद्धम्। वारि पयसा, वारि पयश्च वारिपयः । सर्वो द्वन्द्वो विभाषया एकवद्भवतीति । तेन मूत्रेण च गोमूत्रेण स्नेहपाकसामान्यकल्पनया वारिगोदुग्धमूत्राणि त्रीण्यपि प्रत्येकं तैलचतुर्गुणानि कार्याणि। तथा च तन्त्रान्तरम्- “पञ्चप्रभृति यत्रस्युवाणि स्नेहसंविधौ । पृथक्नेहसमान्याहुरर्वाक् स्याश्च चतुर्गुणम् ॥ तथा च विदेहः-पलानि चैव बिल्वस्य गवां मूत्रेण पेषयेत् । पक्त्वा क्षीरोदके तैलं कर्णयोरेव सेचनमिति ॥ ३१५॥ - कांजी, बिजौरे का रस, मधु तथा शुक्त (प्रत्येक तैल के समान ), इनसे यथा विधि साधित तेल अथवा मधु, अदरख का रस, सहिजन की जड का क्वाथ, केले की जड का रस (चारों पृथक् २ तैल के समान), इनसे यथाविधि साधित तैल अथवा सोंठ, धनियां तथा हींग के कल्क से चतुर्गुण जल द्वारा साधित तैल कर्णशूल को नष्ट करता है । एवं तैल २ प्रस्थ । बकरी का दूध २ प्रस्थ । गोमूत ८ प्रस्थ । वीर्याधानार्थ जल ८ प्रस्थ । कल्कार्थ बेलगिरी ८ पल । यथाविधि सिद्ध कर कान में डालने से बधिरता नष्ट होती है ॥ ३१५॥ इदानी कर्णरोगेषु क्षारतैलमाह
हिङ्ग्वन्ददारुमिशिमूलकभस्मभूर्जरुक्क्षारसिन्धुरुचकोद्भिदशिग्रविश्वैः । सस्वर्जिकाबिडवचाञ्जनमातुलुङ्ग
रम्भारसैः समधुशुक्तमिदं विपक्वम् ।। ३१६ ॥ १-मधुप्रधानं शुक्तन्तु मधुशुक्तन्तथापरम् । जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम् । मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत् । मासेन तजातरसं मधुशुक्तमुदाहृतम् । इति स्वसंग्रहे चक्रः । अत्र वृद्धवंद्योपदेशात् जम्बीरफलरसस्य द्वात्रिंशत्पलानि, पिप्पलीमूलस्य चत्वारि, मधुनोऽष्टौ पलानीति मानक्रमः । अत्र केचित् मधु च शुक्तं च मधुशुक्ते ताभ्यां सह वर्त्तते यत्तैलं तत्समधुशुक्तमित्येवं विश्लिष्य मधुनः शुक्तस्य च पृथक् चातुर्गुण्यमिच्छन्ति परं तेषां मतं जतूकर्णे मधुनोऽपाठान्नोपपद्यते ।