________________
२१२
चिकित्साकलिका। तैलं प्रसिद्धमिति तच्छ्रवणातिनं कर्णप्रणादबधिरत्वहरं नराणाम् । भ्रमस्तकश्रवणशुष्कुलिकान्तराल
शूलापहं चरकशास्त्रचिकित्सितोक्तम् ॥ ३१७ ॥ हिङ्ग्यादिभिः कार्षिकैः कल्कीकृतैस्तैलप्रस्थं मातुलुङ्गरसादिभिः पचेत् । मातुलुङ्गं बीजपूरकम् । तञ्च रम्भा च ( कदली रम्भा) मातुलङ्गरम्भे तयोः रसः।मधुनः शुक्तम् । अथवा मधूकपुष्पाणां शुक्तम् चुक्रम् । बीजपूरकरसकदलीरसमधुचुक्राणि प्रत्येकं चतुर्गुणानि दत्त्वा विपक्वमिदमेतत्तैलं प्रसिद्धम् । हिङ्ग्वादीनामितरेतरद्वन्द्वः । हिङ्गु रामठम् । अब्द मुस्तम् । दारु देवदारु । मिशिः शतपुष्पा । मूलकभस्म शुष्कमूलकाणां क्षारः । भूर्जः तद्ग्रन्थिः । रुक् कुष्ठम् । क्षारो यवक्षारः । सिन्धु सैन्धवम् । रुचकं सौवर्चलम् । औद्भिदं पांसुलवणम् । शिग्रः शोभाजनकम् । विश्वं शुण्ठी । स्वर्जिका स्वर्जिकाक्षारः। बिडं बिडलवणम् । वचा उग्रगन्धा । अञ्जनं रसाञ्जनम् । इत्येभिर्विपक्कं श्रवणाश्रतिघ्नम् । श्रवणी कर्णी तयोरश्रुतिरश्रवणं तां हन्तीति श्रवणाश्रुतिघ्रम् । कर्णप्रणादबधिरत्वे हरतीति कर्णप्रणादबधिरत्वहरम् । नराणां प्राणिनाम् । भ्रमस्तकादिशूलापहम् । चरकशास्त्रचिकित्सिते उक्तं क्षारतैलं प्रसिद्धमिति ॥ ३१६-३१७ ॥
इति कर्णरोगचिकित्सा समाप्ता। क्षारतेल-तैल २ प्रस्थ । बिजौरे का रस ८ प्रस्थ। केले की जड का रस ८ प्रस्थ। मधुशुक्त (मधुप्रधान शुक्त अथवा महुए के फूलों से तय्यार किया हुआ शुक्त), ८ प्रस्थ । कल्कार्थ-हींग, मोथा, देवदारु, सोये, मूलकक्षार (मूली का क्षार) भूर्जग्रन्थि, कुठ, यवक्षार, सैन्धानमक, कालानमक, उद्भिदनमक (रहे का नमक), सहिजन के बीज, सोंठ, सर्जिक्षार, बिडनमक, वच, रसौंत, प्रत्येक १ कर्ष । यथा विधि पाक करें। इस चरकोक्त तैल की दो तीन बूंद कान में डालने से बधिरता, कर्णनाद तथा भ्र, मस्तक एवं कान की दर्द नष्ट होती है ॥ ३१६-३१७ ॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां परिमलाख्यायां चिकित्साकलिकाव्याख्यायां
कर्णरोगचिकित्सा समाप्ता ।