________________
२१०
चिकित्साकलिका। हिग्वादीनामितरेतरद्वन्द्वः। रुक् कुष्ठम् । तीक्ष्णगन्धा शोभाञ्जनकः ।श्वतपुनर्नवा वर्षाभूः सिरणडी । कुटजजा इन्द्रयवाः । पुष्पोद्भवैबीजैः । कतरैः ? सौरसैः सुरसबीजैः । शेषाणि प्रसिद्धानि । इत्येभिः पूर्वोक्तैर्द्रव्यैमूत्रेण सह कटुतैलं शृतं अनले अग्नौ मन्दे । तच्च नासिकया पीतं नस्येन यथाविधि, स्वदितोत्तमाङ्गस्य ईषदवलम्बितशिरस इत्यादि यथाविधिशब्देन आक्षिप्तम् । नासायामामयारोगा येषां ते नासामयिनस्तेभ्यो हितं भवेदिति ॥ ३१४ ॥
इति नालारोगचिकित्सा समाप्ता। ___कटुतैल ८ पल । गोमूत्र ३२ पल । कल्कार्थ-हींग, त्रिकटु, वायविडंग, कट्फल वच, कुष्ट, तीक्ष्णगन्धा (शोभांजन, सहिजन) के बीज, लाक्षा, श्वेत पुनर्नवा, इन्द्रजौ, तुलसीबीज, मिलित १ पल । यथाविधि मन्द २ आंच पर तैल पाक करें। नासारोगियों के लिये इस तैल का नस्य लेना अत्यन्त लाभकर है ॥३१४ ॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां परिमलाख्यायां चिकित्साकलिकाव्याख्यायां नासारोगचिकित्सा समाप्ता ।
-- -- अथ कर्णरोगचिकित्सा। नासारोगचिकित्सानन्तरं यथोद्देशं कर्णरोगचिकित्सितमाहतैलं काञ्जिकबीजपूरकरसक्षौद्रैः सशुक्तैः शृतं स्यात् क्षौद्राकशिग्रमूलकदलीकन्दद्वैर्वा समैः । शुण्ठीतुम्बुरुहिङ्गुभिः शृतमथ स्यात् कर्णशूलापहं सिद्धं बिल्वगिरेण साजपयसा मूत्रेण बाधिर्यजित् ॥३१५||
१-यद्यपि मूलश्लोके साजपयसा इति पाठोऽस्ति परं टीकाकृता तत्स्थले वारिपयसा इति कृत्वा व्याख्यातं तत्पोषणाय च प्रमाणान्तरमप्युपन्यस्तम् । परमजापयसापि योगोऽस्तीति चक्रदत्तोपन्यस्तयोगाद्विज्ञायते । तथा च “फलं बिल्वस्य मूत्रेण पिष्ट्वा तैलं विपाचयेत् । साजाक्षीरं तद्धि हरेद्वाधिर्यं कर्णपूरणे" । तन्त्रान्तरेप्युक्तम्-"बिल्वगर्भ पचे तैलं गोमूत्राजपयोन्वितम् । बाधिर्ये पूरयेत्तेन कर्णो सकफवातजौ” । तथा च टीकाकृता यत् पयसश्चातुर्गुण्यमुक्तं तदसाम्प्रतं द्रवान्तरभावात् । उक्तं हि-"द्रवान्तरण योगे हि क्षीरं स्नेहसमं भवेत्” । अतएव शिवदासोऽपि तत्वचन्द्रिकायां अत्राजाक्षीरं तैलसमं गोमूत्रं त्रिगुणं चतुर्गुणं वेत्याहुरित्याह ।