________________
नासारोगचिकित्सा ।
२०९
सक्रियोजनं लेखनमेतत् चन्दनाद्यमिति । सर्वेषामेवाञ्जनानां स्पष्टलिङ्गेषु रोगेषु वमनादिशुद्धदेहस्य नेत्रस्थे रोगेऽवचारणं कर्त्तव्यमिति । तथा च सुश्रुतः–“व्यक्तरूपेषु रोगेषु शुद्धकायस्य केवले । नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत् ।" शुक्ररुगर्मगदादिविलेखीति | शुक्ररुक् च अर्मगदाश्च शुक्ररुगर्मगदाः ते आदौ येषां ते तथा तान् विलिखितुं शीलं यस्य तत् तथा । अर्म इति पञ्चविधं - प्रस्तार्यर्मशुक्लार्मर कार्माधिमांसास्नाय्वर्म-संगृह्यते । आदिशब्देन उत्सङ्गिनीबद्दलवर्त्मक ईम वर्त्मश्यामवर्त्मबद्ध वर्त्मक्लिष्टवर्त्म पोथकी कुम्भीकिनीशर्करावर्त्मनां सर्वेषां विलेखीति ॥ ३१३ ॥
इति नेत्ररोगचिकित्सा समाप्ता ।
लालचन्दन १ भाग सैन्धानमक २ भाग, हरड़ ३ भाग, ढाक की गोंद ४ भाग; इनके अत्यन्त श्लक्ष्ण चूर्णों को एकल मिला मधु के साथ आंख में आंजने से शुक्र (फूला) तथा अर्म (Pterigium. ) प्रभृति का लेखन होता है । सलाई के अग्र प्रान्त को मध्वाक्त कर चूर्ण में फिरावें । जब चूर्ण लगजाय तब अञ्जन करें ॥ ३१३ ॥ इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां परिमलाख्यायां चिकित्साकलिकाव्याख्यायां नेत्ररोगचिकित्सा समाप्ता ।
11:0:
अथ नासारोगचिकित्सा ।
नेत्ररोगचिकित्सानन्तरं यथोद्देशं नासागतरोगचिकित्सामाहहिंगुव्योषविडङ्गकट्फलवचारुक्तीक्ष्णगन्धायुतैलक्षाश्वेतपुनर्नवाकुटजजैः पुष्पोद्भवैः सौरसैः । इत्येभिः कटुतैलमेतदनले मन्दे समूत्रं तं पीतं नासिकया यथाविधि भवेन्नासामयिभ्यो हितम्।। ३१४ ||
१ – यद्यप्यन्यत्र “चन्दनं सैन्धवं पथ्या पलाशतरुशोणितम् । क्रमवृद्धमिदं चूर्णं शुक्रार्मादिविलेखनम्” । इति पाठादिदं चूर्णाञ्जनमित्यभ्युपगम्यते । चूर्णाञ्जनं च मध्वाक्तशलाकपा चक्षुषि दीयते । परं रसक्रियाञ्जनमिति वदता चन्द्रटस्यायमभिप्रायः: - यदेषां चतुष्टयानां चूर्णं कृत्वा सर्वं चूर्णं प्रचुरतरमधुना समालोड्य वंशनलिकायां काकूप्यां वा स्थाप्यमिति । एतदेव रसक्रियाविधानमत्र ॥