________________
२०२
चिकित्साकलिका। लोचने अक्षिणी तयोर्जाता विकारा रोगास्ते च षट्सप्ततिर्विदेहादिभिर्व्याख्याताः । तत्र दोषद्वारेण वातपित्ताभ्यां प्रत्येकं दश दश । श्लेष्मणा त्रयोदश । रक्तेन षोडश। त्रिदोषजाः पञ्चविंशतिः । आगन्तुजौ च बाह्यौ द्वे। एवं च दोषद्वारेण षट्सप्ततिः । स्थानद्वारेण च-नव सन्धिषु । एकविंशतिर्वम॑गाः । एकादश शुक्लभागे। चत्वारः कृष्णभागे। द्वादश दृष्टिमण्डले। सर्वलोचनाश्रयाः सप्तदश । बाह्यजौ द्वाविति । तेषां सर्वेषां अभिष्यन्दात्सम्भवः । तथा च सुश्रुतः-“प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तमूला" इति । तेषां श्लेष्माश्रयत्वादिति श्लेष्मस्थानाश्रयत्वात् श्लेष्मप्रत्यनीकं चिकित्सितमाह । इति पूर्वोक्तकारेण लङ्घनं अनशनं प्राक प्रथमं प्रशस्यते । मुद्गरसेन मुद्गयूषेण ओदनं भक्तं प्रशस्यत इति ॥ २९९ ॥
नेत्र में उत्पन्न होनेवाले रोग दोषानुसार तथा स्थानाश्रय के अनुसार ७६ हैं । यथा दोषानुसार-वातज १०, पित्तज १०, कफज १३, रक्तज १६, त्रिदोषज २५, आगन्तु २ । स्थानाश्रय द्वारा नेत्रसन्धिओं में ९, वर्त्म में २१, शुक्ल (श्वेत) भाग में १७, कृष्ण (काले) भाग में ४, दृष्टिमण्डल में १२, सम्पूर्ण नेत्रगत १७, नेत्र से बाहिर २ । सम्पूर्ण नेत्र विकारों के प्रायः अभिष्यन्द से ही उत्पन्न होने के कारण इनके कफाश्रित होने से प्रथम लंघन तदनन्तर मुद्गयूष से ओदन (भात) का सेवन करना प्रशस्त है ॥ २९९ ॥
__ अतः परं आश्च्योतनालेपनयोरवसरःआश्च्योतने सत्रिफला सरोधा सचन्दना दारुनिशा प्रशस्ता । आलेपने गैरिकचन्दनं च साताक्ष्यशैलाभयमेतदिष्टम् ।। ३०० ॥
दारुनिशा दारुहरिद्रा । सत्रिफला त्रिफलया सह । सरोधा रोघेण सह । सचन्दना रक्तचन्दनेन सह । आश्च्योतनविषये प्रशस्ता प्रयोजिता । तस्य च प्रमाणं दोषविषयेण विदेहेन पठितम् । “प्रकुचं श्लैष्मिके व्याधौ पाणिशुक्तिश्च वातिके । आश्च्योतने प्रमाणं स्यात् द्वे शुक्ती चास्रपैत्तिके" । गैरिकं चन्दनं च समाहारद्वन्द्वः । गैरिकं सुवर्णगैरिकम् । चन्दनं रक्तचन्दनम् । ताक्ष्यशैलञ्च अभया च ताक्ष्यशैलाभये । सह ताभ्यां वर्तत इति सताक्ष्यशैलाभयं गैरिकचन्दनम् । तार्थ्यशैलं रसाञ्जनम् । अभया हरीतकी । एतदालेपने प्रलेपन इष्टमभिप्रेतम्। पूर्वाचार्येणेति ॥ ३०० ॥