________________
नेत्ररोगचिकित्सा।
२०१
अथ शालाक्यतन्त्रम् । कायचिकित्सानन्तरं यथोद्देशं शालाक्यतन्त्रमाह-शालाक्यतन्त्रमिति कोऽर्थः ? उच्यते शलाकाशब्दो व्रणादौ गणे द्रष्टव्यः । शलाकया कर्म शालाक्यं तत्प्रधानं तन्त्रमभेदोपचाराच्छालाक्यतन्त्रम् । तश्चोर्ध्वजत्रूपगतानां रोगाणां नयनश्रवणवदनघ्राणादिसंश्रितानामुपशमनार्थमतो नयनादिरोगाणां सम्प्राप्तिपरिज्ञानायेदमाह
ऊर्ध्वङ्गमाभिरुपगम्य शिरः सिराभिर्दोषाः स्वहेतुकुपिताः कफपित्तवाताः ।
कण्ठोष्ठतालुरसनारदमूलकर्ण- नासास्यलोचनशिरस्सु रुजः सृजन्ति ॥ २९८ ॥
दोषाः कण्ठादिषु रुजो विकारान् सृजन्ति कुर्वन्ति। कीदृशाः सन्तः ? स्वहेतुकुपिताः । स्वकीया हेतवः स्वकारणानि तैः कुपिताः कोपं गताः। तेच स्वहेतवो रूक्षैस्तिक्तैरित्यादिना पूर्वमुक्ताः।के ते दोषाः? कफपित्तवाताः । ननु किमर्थ व्यतिक्रमेणोपन्यासः कृत इत्युच्यते वातपित्तजन्यस्यापि रोगस्य श्लेष्मणः चिकित्सा कार्येतिज्ञापनार्थ तत्स्थानवत्त्वात् । तथा चोक्तम्-"दोषस्थानगतं दोषं स्थानिवत्समुपाचरेदिति ॥” किं कृत्वा दोषा रोगं कुर्वन्ति ? शिरो मस्तकं सिराभिरुपगम्य गत्वा । कतराभिः सिराभिः ? ऊर्ध्वगमाभिः ऊर्ध्वमुपरिंगमो गमनं यासांता ऊर्ध्वङ्गमास्ताभिः। कण्ठादीनामितरतरद्वन्द्वः । रसना जिह्वा । रदा दन्तास्तेषां मूलानि । आस्यं मुखं कण्ठादिसमवायं वासर्वमुच्यते। लोचने नयने । शिरः कपालमिति ॥ २९८॥
__अपने २ कारणों से कुपित हुए २ कफ, पित्त तथा वात; तीनों दोष ऊपर जानेवाली शिराओं द्वारा सिर में जाकर कण्ठ, ओष्ठ, तालु, जिह्वा, दन्तमूल, कान, नासिका, मुख, नेत्र तथा शिर में नानाप्रकार के रोगों को उत्पन्न करते हैं ॥ २९८ ॥
अथ नेत्ररोगचिकित्सा। चक्षुः प्रधानं सर्वेषामिन्द्रियाणामिति कृत्वा तद्गतविकारसंख्यामनूद्य चिकित्सा प्रोवाचषट्सप्ततिर्लोचनजा विकारास्तेषामभिष्यन्दसमुद्भवानाम् । श्लेष्माश्रयत्वादिति लङ्घनं प्राक् प्रशस्यते मुद्गरसौदनञ्च ॥२९९॥