________________
नेत्ररोगचिकित्सा |
२०३
आइच्योतन के लिये – नेत्रविकारों में दारहल्दी, त्रिफला, लोध, लालचन्दन, इनका यथाविधि साधित क्वाथ तथा आलेपन के लिये - गेरू, लालचन्दन, रसौत तथा हरीतकी (एकल मिश्रित ) हितकर हैं ॥ ३०० ॥
अतः परं त्रिफलाकषायादियोगानाहअतः परं च त्रिफलाकषायः पाने पटोलाद्यफलत्रिकाद्ये । घृते हि कायविशोधनञ्च सरक्तसंशोधनमञ्जनादि ॥ ३०९ ॥
अतोऽस्मात्परं ऊर्ध्वं त्रिफलाकषायः पाने हितः । आदौ भवमाद्यं पटोलमाद्यं यस्य घृतस्य तत्पटोलाद्यम् । फलत्रिकमादौ यस्य घृतस्य तत्फलत्रिकाद्यम् । पटोलाद्यं च फलत्रिकाद्यं च पटोलाद्यफलत्रिकाद्ये घृते वक्ष्यमाणे हिते पानादिभिः । तदनन्तरं स्नेहसमनन्तरं कायस्य शरीरस्य विशोधनं विरेकादिभिः । तदननन्तरं रक्तसंशोधनम् । रक्तस्य संशोधनश्च सिराव्यधजलौकादिभिः कार्य्यम् । तदूर्ध्व स्रुतरक्तस्याअनादि कार्यम् । अञ्जनमादौ यस्य तदञ्जनादि । आदिग्रहणात्तर्पणपुटपाक से काश्च्योतनविरेकबस्तयो गृह्यन्ते ॥ ३०९ ॥
इसके बाद त्रिफलाक्वाथ, पटोलादिघृत तथा विफलाघृत का पान हितकर है । तदनन्तर वमन, विरेचन आदि द्वारा कायशुद्धि, जोंक आदि लगाकर दुष्ट रक्त का निर्हरण तथा अञ्जन आदि हितकर हैं ॥ ३०१ ॥
प्रागुक्तं पटोलाद्यं घृतं हितमिति तदाहअन्द्रोणे सपटोलनिम्बकटुकात्रायन्तिकाचन्दनैदावयासवृषैः फलत्रयशतस्यार्द्धेन तुल्यैः शृतैः । कृष्णा कौटजचन्दनान्द मधुकैर्भूनिम्बयुक्तैः शृतं श्रोत्रप्राणमुखाक्षिरुकप्रशमनं सर्पिः पटोलादिकम् || ३०२ ||
दावयासवृपैः सपटोलादिभिः अद्रोणे तुल्यैः फलत्रयशतस्यार्द्धेन श्रुतैः । एतदुक्तं भवति - पटोलादीनां वृषान्तानां पञ्चाशत्पलानि त्रिफलायाश्च पञ्चाशत्पलानि । एवमेतत् शतं सलिलद्रोणे प्रक्वाथ्य चतुर्भागावशेषेण घृतप्रस्थं पचेत् । पटोलं पटोलपत्रम् । निम्बः पिचुमन्दः । कटुका कवी । त्रायन्तिका त्रायमाणम् । चन्दनं रक्तचन्दनम् । दार्वी दारुहरिद्रा । यासो दुरालभा । वृषं वासकम् ।