SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १९८ चिकित्साकलिका। तृष्णासु तृष्णारोगेषु पञ्चाम्लकं उद्दिशन्ति उपदिशन्ति । पञ्चानां बदरदाडिमवृक्षाम्लचुक्रीकाचुक्रिकाणामम्लानां समाहारः पञ्चाम्लकः तं उपदिशन्तीति । तथा च चरकः-"कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः । पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छतीति ॥” प्लीहामये प्लीहरोगे पिप्पलीवर्द्धमानं पूर्व व्याख्यातमुद्दिशन्ति । यकृद्विकारे च यकृदुदरे रोहीतकः कषायचूर्णावलेहघृतादिषु प्रशस्तं स्यादिति । विद्रधीनां वरुणः कषायादिषु प्रशस्तो भवतीति ॥ २९३॥ ___ तृष्णा में पञ्चाम्ल (बेर, अनार, विषांबिल, इमली, चांगेरी), प्लीहारोग में पिप्पलीवर्द्धमान, यकृद्रोग में रोहीतक (रोहेड़ा), विद्रधि में वरुण (वरना) का प्रयोग प्रशस्त है ॥ २९३ ॥ जठरामयादिषु गोमूत्रादियोगत्रयमाहगोमूत्रमेकं जठरामयेषु विषोपसृष्टेषु शिरीषकल्कम् । कोशातकी मूषिकसंभवेषु विषेषु साङ्कोठजटाकषाया ॥ २९४ ।। ___ जठरामयेषु उदररोगिषु गोमूत्रमेकं प्रधानमुद्दिशन्ति । विषोपसृष्टेषु विषैः स्थावरजङ्गमकृत्रिमैरुपसृष्टा विषोपसृष्टास्तेषु शिरीषकल्कं पानालेपनादिषु हितमुद्दिशन्ति । मूषिकसंभवेषु विषेषु कोशातकी साङ्कोठजटाकषाया शस्ता । अङ्कोठजटाकषायेण कोशातकीकल्कं पाययेदिति ॥ २९४॥ उदररोग में गोमूत्र, विषपीडितों के लिये पान तथा प्रलेप में शिरीष (सिरस) का कल्क, मूषिकविष में अंकोठ (ढेरा) की जड के क्वाथ के साथ कोशातकी (कड़वी तुरई) के चूर्ण का प्रयोग हितकर है ॥ २९४ ॥ अधुनो धोमध्यविभागेन त्रिधा कृत्वा शरीरान्तर्गतरोगचिकित्सां विवक्षुराह मन्याहनुश्रवणलोचनानासिकास्यभ्रभागतालुगलशङ्खशिरोविकारान् । कृष्णा निहन्ति दशमूलकषायपीता काथेन वा सह फलत्रितयोद्भवेन ॥ २९५ ॥ मन्यादिषु शिरःपर्यन्तेषु ये विकारास्तान् दशमूलकषायपीता कृष्णा पिप्पली निहन्ति । फलत्रितयादुद्भवो यस्यासौ फलत्रितयोद्भवः
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy